पूर्वम्: ४।३।६८
अनन्तरम्: ४।३।७०
 
सूत्रम्
अध्यायेष्वेवर्षेः॥ ४।३।६९
काशिका-वृत्तिः
अध्यायेष्वेव र्षेः ४।३।६९

ऋषिशब्दाः प्रवर्नामधेयानि, तेभ्यः ऋषिशब्देभ्यो भवव्याख्यानयोः अर्थयोः ठञ् प्रतयो भवति अणो ऽपवादः अध्यायेष्वेव प्रत्ययार्थे विशेषणेषु। व्याख्यातव्यनाम्नः इत्यनुवर्तते, तत्साहचर्यादृषिशब्दैर् ग्रन्थ उच्यते। वसिष्ठस्य व्याख्यानः तत्र भवो वा वासिष्ठिको ऽध्यायः। वैश्वामित्रिकः। अध्यायेषु इति किम्? वासिष्ठी ऋक्।
न्यासः
अध्यायेष्वेवर्षेः। , ४।३।६९

बाल-मनोरमा
अध्याये�ओवर्षेः १४२७, ४।३।६९

अध्यायेष्वेवर्षेः। मन्त्रो वसिष्ठ इति। लक्षणयेति भावः। वासिष्ठिकोऽध्याय इति। कश्चिद्ग्रन्थविशेषोऽयम्। वासिष्ठी ऋगिति। ऋचोऽध्यायसमाख्याऽभावान्न ठञिति भावः।

तत्त्व-बोधिनी
अध्यायेष्वेवर्षेः १११७, ४।३।६९

अध्यायेष्वेवर्षेः। एवकारः स्पष्टप्रतिपत्त्यर्थः। वासिषठीति। भवार्थेऽण्।