पूर्वम्: ४।३।७०
अनन्तरम्: ४।३।७२
 
सूत्रम्
छन्दसो यदणौ॥ ४।३।७१
काशिका-वृत्तिः
छन्दसो यदणौ ४।३।७१

छन्दःशब्दाद् भवव्याख्यानयोरर्थयोः यदणौ प्रत्ययौ भवतः। द्व्यचः इति ठकि प्राप्ते वचनम्। छन्दस्यः छान्दसः।
न्यासः
छन्दसो यदणौ। , ४।३।७१

बाल-मनोरमा
छन्दसो यदणौ १४२९, ४।३।७१

छान्दसो यदणौ। "तस्य व्याख्याने, तत्राभवे चे"ति शेषः। छन्दस्य छान्दस इति। छन्दसां व्याख्यानः, तत्र भवो वेत्यर्थः। द्व्यज्लक्षणस्य वक्ष्यमाणस्य ठकोऽपवादः।

तत्त्व-बोधिनी
छन्दसो यदणौ १११९, ४।३।७१

छन्दसो। छन्दः--शब्दाद्भवव्याख्यानयोरर्थयोर्यदणौ स्तः। व्द्यज्लक्षणस्य ठकोऽपवादः। छन्दस्य इत्यादि। इहार्थयोर्यदण्भ्यां यथासङ्ख्यं न भवत्यस्वरितत्वादिति बोध्यम्।