पूर्वम्: ४।३।७२
अनन्तरम्: ४।३।७४
 
सूत्रम्
अणृगयनादिभ्यः॥ ४।३।७३
काशिका-वृत्तिः
अणृगयनाऽदिभ्यः ४।३।७३

ऋगयनाऽदिभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोः अण् प्रत्ययो भवति। ठञादेरपवादः। आर्गयनः। पादव्याख्यानः। अण्ग्रहणं बाधकबाधनार्थम्। वास्तुविद्यः। ऋगयन। पदव्याख्यान। छन्दोमान। छग्दोभाषा। छन्दोविचिति। न्याय। पुनरुक्त। व्याकरण। निगम। वास्तुविद्या। अङ्गविद्या। क्षत्रविद्या। उत्पात। उत्पाद। संवत्सर। मुहूर्त। निमित्त। उपनिषत्। शिक्षा। ऋगयनादिः।
न्यासः
अणृगयनादिभ्यः। , ४।३।७३

"ठञोरपवादःर" इति। आदिशब्देन ठकश्छस्य च। तत्र ये बह्वचोऽन्तोदात्तस्तेभ्यष्ठञः। विद्यान्यायशिक्षाशब्देभ्यो द्व्यज्लक्षमस्य ठकः। व्याकरणशब्दाद्()वृद्धाच्छस्य। अण्ग्रहणं किमर्थम्? न ऋययनादिभ्यो ता विहितमेवोच्येत, न चैवं सत्यपवादाः ष्ठनादयः स्युरिति सम्भाव्यते; अपवादविधानस्य हि वैयथ्र्यं स्यात्। तस्माद्वचनप्रामाण्यद्यो विहितो न च प्राप्नोत्यन्येन बाधितत्वात् स एव भविष्यति, स चाणेव? इत्यत आह-- "अण्ग्रहणम्" इत्यादि। तत्र यद्यण्ग्रहणं न क्रियेत्, तदा यदत्र वृद्धमन्तोदात्तं ठञा बाधिते पुर्वचनाच्छ एव भविष्यति। तस्माच्छस्य बाधकसय् बाधनार्थमण्ग्रहणम्। तेन वास्तुविद्य इति सिद्धं भवति। वास्तुविद्याशब्दो वृद्धः,समासस्वेरमाअन्तोदात्तश्च। "ऋगयन" इत्यादि। ऋगयनमिति। ऋगयनशब्दो भावसाधन ऋचामयनम्,यद्यपि भावे ल्युट्, तथाप्यभदोपचारात् तद्वति ग्रन्थे व्याख्यातव्ये वत्र्तते, स च "अनो भावकर्मवचनः" ६।२।१४९ इत्यन्तोदात्तः। यैस्तु करणे ल्युटं कृत्वाऋगयनशब्दो व्युत्पाद्यते, तेषां स कृदुत्तरपदप्रकृतिस्वरेण मध्योदात्तो न गणे पाठं प्रयोजयति ततः "प्राग्दीव्यतोऽण्" ४।१।८३ इत्येव सिद्धः। पदव्याख्यानशब्दः "मन्क्तिन्व्याक्यानशयनासनस्थानयाजकादिक्रीताः" ६।२।१५० इत्यन्तोदात्तः। "{नास्ति-- काशिकायां पदमञ्जर्यां च।} मान" इति। मनोर्धातोर्यदा घञ् तदा "थाथषञ्क्ताजवित्रकाणाम्" ६।२।१४३ इत्यन्तोदात्तः। अथ मिनातेर्ल्युट्,तदा "अनो भावकर्मवचने" ६।२।१४९ इत्यन्तोदात्तः। "छन्दोभावः" इति। "गतिकारकोपपदात्" कृत्" ६।२।१३८ इति कृत्स्वरेणान्तोदात्तः। भाषाशब्द "गुरोश्च हलः" ३।३।१०३इत्यकारप्रत्ययान्तो व्युत्पादितः। "छन्दोविचिति" इति। "मन्क्तिन्" ६।२।१५० इत्यादिनान्तोदात्तः। पुनरुक्तशब्दः "थाथघन्क्ता जवित्रकाणाम्" ६।२।१४३ इत्यन्तोदात्तः। "{ नास्ति--काशिकायाम्" } निरुक्तः" "संज्ञायामनाचितादीनाम्" ६।२।१४५ इत्यन्तोदात्तः, व्याकरणशब्दो ल्युडन्तो मध्योदात्तः। निगमशब्दः "गोचरसञ्चर" ३।३।११९ इत्यादिसूत्रे घप्रत्ययान्तो निपातितः प्रत्यस्वरेणान्तोदात्तः। वास्तुविद्याशब्दोऽङ्गविद्या {क्षत्त्रविद्या--काशिका पदमञ्जरी च।} क्षत्त्रियविद्येत्येते च समासस्वरेणान्तोदात्ताः। उत्पात्, "{उत्पाद --काशिका" } उदपाद--इत्येतौ थाथादि ६।२।१४३ सूत्रेणान्तोदात्तौ। संवत्सर इति। "अशेः सर" (द।उ।८।५०) इत्यनुवृत्तौ "वसेः संपूर्वाच्चित्" (द।उ।८।५१,५२) इत्येवं व्युत्पादतित्वात् संवत्सरशब्दोऽन्तोदात्तः। मृह्रतेर्धातोः क्तः, क्ते ऊरागमः, तेन "मुहूर्त" इत्यन्तोदात्तः। "निमित्त" शब्दोऽपि प्रातिपदिकस्वरेण। "उपनिषत्" इति। उपनिपूर्वात् सदेः क्विप्। कृत्स्वरेणान्तोदात्तः॥
बाल-मनोरमा
अणृगयनादिभ्यः १४३१, ४।३।७३

अणृगयनादिभ्यः। "तस्य व्याख्याने तत्र भवे चे"ति शेषः। आर्गयनैति। ऋगयनम्--ऋक्संहिता, तस्य व्याख्यानस्तत्र भवो वेत्यर्थः। "बह्वचोऽन्तोदात्ता"दिति ठञि प्राप्ते अण्। औपनिषद इति। उपनिषदो व्याख्यानस्तत्र भवो वेत्यर्थः। एवं वैयाकरणः। "न य्वाभ्या"मित्यैच्। अण्ग्रहणं तु छबाधनार्थम्, अन्यथा अणा मुक्ते छो दुर्वारः स्यादित्याहुः।

तत्त्व-बोधिनी
अणृगयनादिभ्यः ११२१, ४।३।७३

अणृगय। ऋगयनादिभ्योभवव्याख्यानयोरर्थयोरण्स्यात्। ठञादेरिति। आदिशब्दाट्ठक्छयोः। आर्गयन इति। "अयन"शब्दो भावसाधनः, तेन समासे "अनो भावकर्मवचनः"इत्यन्तोदात्तः। अभेदोपचाराद्भाववचनोऽपि ग्रन्थे वर्तते। इह "बह्वचोऽन्तोदात्ता"दिति ठञ्प्राप्तः। औपनिषद इत्यत्राप्येवम्। विद्यान्यायशिक्षाशब्देभ्यो "व्द्यजृद्ब्राआहृणे"ति ठक्प्राप्तः। व्याकरणशब्दात्तु---"वृद्धाच्छः"।