पूर्वम्: ४।३।७३
अनन्तरम्: ४।३।७५
 
सूत्रम्
तत आगतः॥ ४।३।७४
काशिका-वृत्तिः
तत आगतः ४।३।७४

ततः इति पञ्चमीसमर्थादागतः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। स्रुघ्नातागतः स्रौघनः। माथुरः। राष्ट्रियः। ततः इति मुख्यम् अपादानं विवक्षितं यत् तदिह गृह्यते, न नान्तरीयकम्। स्रुघ्नादाग्च्छन् वृक्षमूलादागतः इति।
लघु-सिद्धान्त-कौमुदी
तत आगतः ११०१, ४।३।७४

स्रुग्घ्नादागतः स्रौग्घ्नः॥
न्यासः
तत आगतः। , ४।३।७४

अथ "रुआउघ्नादगच्छन् वृक्षमूलादागतः" इति। अत्र वृक्षमूलशब्दात् प्रत्ययः कस्मान्न भवति? इत्याह-- "मुख्यम्" इत्यादि। मुख्यं प्रधानं विवक्षितम्, तदिह परिगृह्रते; न तु नान्तरीयकप्रधानम्, न हि मुख्ये सतीतरस्याप्रधानस्य ग्रहणं युक्तम्; मुक्ये कार्यसम्प्रत्ययात्॥
बाल-मनोरमा
तत आगतः १४३२, ४।३।७४

तत आगतः। अस्मिन्नर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। स्नौघ्न इति। औतद्सर्गिकोऽण्।