पूर्वम्: ४।३।७५
अनन्तरम्: ४।३।७७
 
सूत्रम्
शुण्डिकादिभ्योऽण्॥ ४।३।७६
काशिका-वृत्तिः
शुण्डिकादिभ्यो ऽण् ४।३।७६

शुण्डिक इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः अण् प्रत्ययो भवति ततः आगतः इत्येतस्मिन् विषये। आयस्थानठको ऽपवादः। शुण्डिकादागतः शौण्डिकः। कार्कणः। अण्ग्रहणं बाधकबाधनार्थम्। औदपानः। शुण्डिक। कृकण। स्थण्डिल। उदपान। उपल। तीर्थ। भूमि। तृण। पर्ण। शुण्दिकादिः।
न्यासः
शुण्डिकादिभ्योऽण्। , ४।३।७६

"आयस्थानठकोऽपवादः" इति। बाहुल्यादेवमुक्तम्; यस्मात् कृकणशब्दोऽत्र पठ()ते। तत्र हि "कृकणपर्णाद्भारद्वाजे" ४।२।१४४ इति प्राप्तस्य च्छस्यापवादः। तीर्थशब्दश्चेह धूमादिषु पठ()ते, ततः "धूमादिभ्यश्च" ४।२।१२६ इति प्राप्तस्य वुञोऽपवादः। अथाण्ग्रहणं किमर्थम्, न शुण्डिकादिभ्यो यथाविहितमेवोच्येत, न चैवं पठ()मानेऽपवाद एव स्यादित्याशङ्कनीयम्; अपवादविधाने हि वचनवैयथ्र्यं स्यात्, तस्मादन्तरेणाप्यण्ग्रहणमणेव भविष्यति? इत्यत आह-- "अण्ग्रहणम्" इत्यादि। "उदपान" शब्दोऽत्र पठ()त आयस्थानवचनम्, उत्सादिष्वसौ पठ()ते; तत्रासत्यग्रहण आयस्थानठकं बाधित्वा "उत्सादिभ्योऽञ्" ४।१।८६ इत्यञेव स्यात्। तस्मात् तस्य बाधकस्य बाधनार्थमण्ग्रहणम्। तेनोदपान इत्यत्राण्सिद्धो भवति॥
बाल-मनोरमा
शुण्डिकादिभ्योऽण् १४३४, ४।३।७६

शुण्डिकादिभ्योऽण्। "तत आगत" इत्येव। शुण्डिकमायस्थानविशेषः। पूर्वसूत्रविहितठगपवादः। कार्कण इति। "कृकणादागत" इति शेषः। "कृकणपर्णाद्भारद्वाजे" इति छस्यापवादः। तैर्थ इति। धूमादिवुञोऽपवादः। औदपान इति। अत्र उत्सादित्वादञ्प्राप्तो न भवति, पुनरण्ग्रहणात्। अन्यथा यथाप्राप्तविधाने आयस्थानठकं बाधित्वा अञेव स्यात्।

तत्त्व-बोधिनी
शुण्डिकादिभ्योऽण् ११२३, ४।३।७६

छादीनां चेति। कार्कण इथ्यत्र "कृकणपर्णाद्भारद्वाजे"इति छः प्राप्तः। तीर्थशब्दात्तु धूमादित्वाद्वुञ्प्राप्तः। उजपानशब्दस्योत्सादित्वदञ्प्राप्त इत्यर्थः।