पूर्वम्: ४।३।७६
अनन्तरम्: ४।३।७८
 
सूत्रम्
विद्यायोनिसंबन्धेभ्यो वुञ्॥ ४।३।७७
काशिका-वृत्तिः
विद्यायोनिसम्बन्धेभ्यो वुञ् ४।३।७७

विद्यायोनिकृतः सम्बन्धो येषां ते विद्यायोनिसम्बन्धाः। तद्वाचिभ्यः शब्देभ्यो वुञ् प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये। अणो ऽपवादः। छं तु परत्वाद् बाधते। विद्यासम्बन्धेभ्यस् तावत् उपाध्यायादागतं औपाध्यायकम्। शौष्यकम्। आचार्यकम्। योनिसम्बन्धेभ्यः मातामहकः। पैतामहकः। मातुलकः।
लघु-सिद्धान्त-कौमुदी
विद्यायोनिसंबन्धेभ्यो वुञ् ११०३, ४।३।७७

औपाध्यायकः। पैतामहकः॥
न्यासः
विद्यायोनसम्बन्धेभ्यो वुञ्। , ४।३।७७

बाल-मनोरमा
विद्यायोनिसम्बन्धेभ्यो वुञ् १४३५, ४।३।७७

विद्यायोनि। "तत आगत" इत्येव। औपाध्यायकः, पैतामहक इति। उपाध्यायात्पितामहाच्च आगत इत्यर्थः।

तत्त्व-बोधिनी
विद्यायोनिसम्बन्धेभ्यो वुञ् ११२४, ४।३।७७

विद्यायोनि। विद्यायोनिकृतः संबन्धो येषां तेभ्यो वुञ्स्यात्। अणोऽपवादः। छं तु परत्वाद्बाधते। आचार्यकः। मातामहकः। मातुलकः।