पूर्वम्: ४।३।७
अनन्तरम्: ४।३।९
 
सूत्रम्
मध्यान्मः॥ ४।३।८
काशिका-वृत्तिः
मध्यानमः ४।३।८

मध्यशब्दान् मः प्रत्ययो भवति शैषिकः। अणो ऽपवादः। मध्यमः। आदेश्च इति वक्तव्यम्। आदिमः। अवो ऽधसोर् लोपश्च। अवमम्। अधमम्।
लघु-सिद्धान्त-कौमुदी
मध्यान्मः १०८६, ४।३।८

मध्यमः॥
न्यासः
मध्यान्मः। , ४।३।८

मध्यशब्दो यो गहादिषु पृथिवीमध्यवचनः "मध्यमध्यमञ्चाण् चरणे" (ग।सू,।९९) इति पठ()ते, ततस्तु तत एव विधिर्भवति। यस्त्वन्यस्तस्येह ग्रहणं वेदितव्यम्॥
बाल-मनोरमा
मध्यान्मः १३५८, ४।३।८

मध्यान्मः। स्पष्टम्।