पूर्वम्: ४।३।७९
अनन्तरम्: ४।३।८१
 
सूत्रम्
गोत्रादङ्कवत्॥ ४।३।८०
काशिका-वृत्तिः
गोत्रादङ्कवत् ४।३।८०

अपत्याधिकारादन्यत्र लौकिकं गोत्रम् अपत्यमात्रं गृह्यते। गोत्रप्रत्ययान्तात् प्रातिपदिकादङ्कवत् प्रत्ययविधिर्ब् हवति ततः आगतः इत्येतस्मिन् विषये। अङ्कग्रहणेन तस्य इदम् अर्थसामान्यं लक्ष्यते। तस्माद् वुञतिदिष्यते, न अण्, सङ्घाङ्कलक्षणेष्वञ्यञिञाम् अण् ४।३।१२७ इति। औपगवानाम् अङ्कः औपगवकः। कापटवकः। नाडायनकः। चारायणकः। एवम् औपगवेभ्य आगतम् औपगवकम्। कापटवकम्। नाडायनकम्। चारायणकम्।
न्यासः
गोत्रादङ्कवत्। , ४।३।८०

यदि गोत्रादङ्कवत्प्रत्ययविधिर्भवतीत्युच्यतेऽण एवातिदेशः प्राप्नोति, न वुञः। यस्मादण्विधावेवाङ्गग्रहणमस्ति। "सङ्घाङ्कलक्षण" ४।३।१२७ इत्यादौ सूत्रेण वुञ्विधौ "गोत्रचरणाद्()वुञ्" (४।३।१२६) इत्यत्र? इत्याह-- "अङ्कग्रहणेन्" इत्यादि। यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकग्रहणमुपधातसामान्यस्योपलक्षणम्, एवमिहाप्यङ्कग्रहणं "तस्येदम्" ४।३।१२० इत्यस्य। तेनायं सूत्रार्थो भवति-- यथा "तस्येदम्" ४।३।१२० इत्यत्र प्रत्ययो भवति, तथा "तत आगतः" ४।३।७४इत्यत्रापि। तेन वुञोऽप्यतिदेश उपपद्यते। नन्वेवमप्यणोऽतिदेशो न प्राप्नोति, न हि तद्विधौ गोत्रग्रहणमस्ति? पूर्वसूत्राद्()गोत्रग्रहणमनुवत्र्तत इत्यदोषः। "सङ्घाङ्कलक्षण" ४।३।१२७ #एइत्यादिना येन सूत्रेणाण् विहितस्तद्दर्शयति॥
बाल-मनोरमा
गोत्रादङ्कवत् १४३८, ४।३।८०

गोत्रादङ्कवत्। अङ्के ये प्रत्ययास्ते तत आगत इत्यर्थेऽपि भवन्तीत्यर्थः। बिदेभ्य आगतमिति। विग्रहप्रदर्शनम्। अत्र "यञञोश्चे"ति बहुत्वे अञो लुकि "बिदेभ्य" इति निर्देशः। बैदमिति। "सङ्घाङ्कलक्षणेष्वञ्यञिञाम"णित्युक्तरञन्तादिहाप्यर्थे अणि विवक्षिते "गोत्रेऽलुगची"त्यञो लुङ्निवृत्तौ बैदशब्दादण्। "द्व्यजृद्ब्राआहृणे"ति द्व्यज्लक्षणस्य ठकोऽपवादः। गार्गमिति। यञन्तादण्। दाक्षमिति। इञन्तादण्। औपगवकमिति। उपगोरपत्यमौपगवः, तस्मादागतमित्यर्थः। "गोत्रचरणाद्व]ञिति वुञ्। यद्यपि तस्येदमित्यर्थे अयं वुञ्विहितः, तथाप्यञ्यञिञन्तादङ्केऽपि स दृष्ट इति तस्याप्यत्रार्थे अतिदेशो भवति। न हि "सङ्घाङ्के"ति प्रतिपदोक्तस्याऽण एवात्राऽतिदेशः, किं तु अङ्के दृष्टस्य सर्वस्यापि, व्याख्यानादिति भावः।

तत्त्व-बोधिनी
गोत्रादङ्कवत् ११२६, ४।३।८०

गोत्रादङ्कवत्। "अपत्याधिकारादन्यत्र लौकिकं गोत्र"मित्युक्तम्। अपत्यप्रत्ययान्तात् "तत आगतः"इत्यस्मिन्नर्थे अङ्कवत्प्रत्ययाः स्युः। अङ्के दृष्टस्य सर्वस्यायमतिदेशो, न तु साक्षाद्विहितस्यैवेत्याग्रहः, तेन "गोत्रचरणाद्वु"ञिति वुञपि लभ्यते। स हि "तस्येद"मिति सामान्येन विधीयमानोऽपि अञ्यञिञन्तादन्यत्र अङ्केऽपि दृष्टः। वेदमित्यादि। सङ्घाङ्के"त्यादिना अङ्कार्थेऽण्विहित इतीहाप्यञ्यञिञन्तादण्। औपगवकमिति। "गोत्रचरणा"दिति वुञ्। अङ्के दृष्ट इतीहाप्यण्णन्ताद्वुञ्।