पूर्वम्: ४।३।८१
अनन्तरम्: ४।३।८३
 
सूत्रम्
मयट् च॥ ४।३।८२
काशिका-वृत्तिः
मयट् च ४।३।८२

हेतुभ्यो मनुष्येभ्यः च मयट् प्रत्ययो भवति ततः आगतः इत्येतस्मिन् विषये। सममयम्। विषममयम्। मनुस्येभ्यः देवदत्तमयम्। यज्ञदत्तमयम्। टकारो ङीबर्थः। सममयी। योगविभागो यथासङ्ख्यनिरासार्थः।
लघु-सिद्धान्त-कौमुदी
मयट् च ११०५, ४।३।८२

सममयम्। देवदत्तमयम्॥
न्यासः
मयट् च। , ४।३।८२

"योगविभागो यथासंख्यानिरासार्थः" इति। ननु चान्यतरस्यांग्रहणेनौत्सर्गिकेऽभ्यनुज्ञायमाने वैषम्याद्यथासंख्यस्य प्राप्तेरेव नास्ति? सत्यमेतत्; यस्तु रूप्यमयटोरपूर्वत्वाद्विधीयमानपेक्षया यथासंख्यत्वं मन्येत,तं प्रति योगविभागः क्रियते॥
बाल-मनोरमा
मयट् च १४४१, ४।३।८२

मयट् च। "उक्तविषये" इति शेषः।

तत्त्व-बोधिनी
मयट् च ११२८, ४।३।८२

मयट् च। योगविभागो यथासङ्ख्यनिरासार्थः। ट

#ओ ङीबर्थः।