पूर्वम्: ४।३।८२
अनन्तरम्: ४।३।८४
 
सूत्रम्
प्रभवति॥ ४।३।८३
काशिका-वृत्तिः
प्रभवति ४।३।८३

ततः इत्येव। पञ्चमीसमर्थात् ङ्याप्प्रातिपदिकात् प्रभवति इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रभवति प्रकाशते, प्रथमत उपलभ्यते इत्यर्थः। हिमवतः प्रभवति गैमवती गङ्गा। दारदी सिन्धुः।
लघु-सिद्धान्त-कौमुदी
प्रभवति ११०६, ४।३।८३

हिमवतः प्रभवति हैमवती गङ्गा॥
न्यासः
प्रभवति। , ४।३।८३

"{प्रथमतः--काशिका"} प्रथम उपलभ्यत इत्यर्थः" इति। प्रथम इत्यनेन प्रशब्दस्यार्थमाचष्टे। "उपलभ्यते" इत्यनेनापि भवतेः। अनेकार्थत्वाद्धातूनां भवतिरिहोपलब्धौ भवतिरिहोपलब्धौ वत्र्तते। "हिमवतः प्रभवति" इति। "भुवः प्रभवः" १।४।३१ इति हिमवतोऽपादानसंज्ञा॥
बाल-मनोरमा
हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः १४४०, ४।३।८३

हेतुमनुष्येभ्यः। "तत आगत" इत्येव। हेतुभ्य उदाहरति--समादागतमित्यादि। मनुष्यवाचिन उदाहरति--देवदत्तरूप्यमिति।

बाल-मनोरमा
प्रभवति १४४२, ४।३।८३

प्रभवति। तत इत्येवेति। "आगत" इति तु निवृत्तम्। प्रभवतीत्यर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। प्रभवः-प्रथमप्रकाशः। हिमवतः प्रभवतीति। हिमवति प्रथमं प्रकाशत इत्यर्थः। "भुवः प्रभवः" इत्यापादानत्वम्।

बाल-मनोरमा
अभिनिष्क्रामति द्वारम् १४४५, ४।३।८३

अभिनिष्क्रामति द्वारम्। कान्येति। कान्यकुब्जाख्यजनपदस्य द्वारमित्यर्थः।

तत्त्व-बोधिनी
प्रभवति ११२९, ४।३।८३

हैमवतीति। हिमवतः प्रकाशते। तत्र प्रथमं दृश्यत इत्यर्थः। उत्पत्तिवचनस्तु प्रभवतिर्न गृह्रते, "तत्र जातः"इत्यतो भेदेन निर्देशात्।