पूर्वम्: ४।३।८३
अनन्तरम्: ४।३।८५
 
सूत्रम्
विदूराञ्ञ्यः॥ ४।३।८४
काशिका-वृत्तिः
विदूराञ् ञ्यः ४।३।८४

विदूरशब्दात् ञ्यः प्रत्ययो भवति ततः प्रभवति इत्येतस्मिन् विषये। अणो ऽपवादः। विदूरात् प्रभवति वैदूर्यो मणिः। ननु च वालवायादसौ प्रभवति, न विदूरात्, तत्र तु संस्क्रियते? एवं तर्हि वालवायो विदूरं च प्रकृत्यनतरम् एव वा। न वै तत्र इति चेद् ब्रूयाज् जित्वरीवदुपाचरेत्।
न्यासः
विदूराञ्ञ्यः। , ४।३।८४

"तत्र तु संस्क्रियते" इति। तुशब्दोऽवधारणे। संस्क्रियते एव च तत्र विदूरे नगरे, न ततः प्रभवति। "वालवायो विदूरञ्च" इति। वालवायशब्द एव प्रत्ययमुत्पादयति, न विदूरशब्दः। प्रभवतिशब्दस्य प्रथमत उपलभ्यत इत्यर्थः। प्रभवति च वालवाये पर्वते। तस्माद्यतः प्रभवति तद्वाची वालवायशब्दः प्रकृतित्वेनाक्षिप्यते। यथा विश्रवणरवणा इत्यादेशावेव शिवादिषु पठ()एते। अपत्याधिकारात्तु येन तयोरपत्यापत्यवत्ससम्बन्धः स एव प्रकृतित्वेनाक्षिप्यते विश्रवस्शब्दः। विश्रवसोऽपत्यं वैश्रवणः, रावणः। अथ वा प्रकृत्यन्तरमेव विदूरशब्दो वालवाये वत्र्तते। विदूरात् भवति वालवायात् पर्वतात् प्रभवतीत्यर्थः। एवं स्थिते यो ब्राऊयात्-- नैव तत्र वालवाये प्रसिद्धो विदूरशब्द इति,तं प्रत्याह-- "जित्वरीवदूपाचरेत्" इति। यथा वणिज एव वासाणसी नगरीं "जित्वरी" इत्युच्चारयन्ति मङ्गलार्थम्, न लोकाः, एवं वैयाकरणा एव वालवायं विदूरमित्युच्चारयन्ति। नियतदेशपुरुषविषया अपि रूढयो भवन्तीत्येतज्जित्वरीवदित्यनेन कथयति॥
बाल-मनोरमा
विदूराञ्ञ्यः १४४३, ४।३।८४

विदूराञ्ञ्यः। ततः प्रभवतीत्येव। विदूरशब्दो दन्त्यमध्यः। वालवायाख्यदेशपर्यायो विदूरशब्द इति भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
विदूराञ्ञ्यः ११३०, ४।३।८४

वैदूर्य इति। दन्त्यमध्योऽयं शाद्वलवत्, न तु नड्वलवन्मूर्धन्यमध्यः। नन्वत्रार्थाऽसङ्गतिः, बालावायपर्वताद्ध्यसौ प्रभवति, विदूरनगरे तु संस्क्रियते। सत्यम्। अतएव समाहितं बाष्ये---"बालवायो विदूरं च प्रकृत्यन्तरमेव वा। न वै तत्रेति चेद्ब्राऊयाज्जिल्वरीवदुपाचरेत्िति। अस्यार्थः-----बालवायशब्दः प्रत्ययं लभते, विदूरादेशं च, सूत्रे पठितेनादेशेनानुरूपः स्थानीबालवायशब्द आक्षिप्यते, यथाल शिबादिषु पठिताभ्यां विश्रवणरवणादेशाभ्यामनुरूपः स्थानी वि()आवस्शब्द आक्षिप्यते, यथा वा "पद्दन्न"इत्यादौ पदाद्यादेशानुरूपः स्थानी पाददन्तादिराक्षिप्यते तद्वत्। प्रकृत्यन्तरमेवेति। विदूरशब्दो नगरस्येव पर्तस्यापि वाचकोऽस्तीत्यर्थः। एवं चास्मिन्पक्षे "बालवायात्प्रभवती"ति विग्रहे विदूरशब्दात्प्रत्यय इति व्याख्यानक्लेशो नेति भावः। न वै इति। "वै" शब्दोऽक्षमां द्योतयति। तत्र पर्वते विदूरशब्दोऽप्रसिद्ध इति च्द्ब्राऊयाज्जित्वरीवव्द्यवहरेत्। नियतपुरषापेक्षो हि व्यवहारो दृश्यते, यथा वणिज एव वाराणसीं जित्वरीति व्यवहरन्ति, एवं वैयाकरणा एवाऽदिं()र विदूर इति।