पूर्वम्: ४।३।८६
अनन्तरम्: ४।३।८८
 
सूत्रम्
अधिकृत्य कृते ग्रन्थे॥ ४।३।८७
काशिका-वृत्तिः
अधिकृत्य कृते ग्रन्थे ४।३।८७

तदित्येव। अधिकृत्य एतदपेक्ष्य द्वितीया। अधिकृत्य प्रस्तुत्य, आगूर्य इत्यर्थः। तदिति द्वितीयासमर्थादधिकृत्य कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यत् तत् कृतं ग्रन्थश्चेत् स भवति। सुभद्रामधित्य कृतो ग्रन्थः सौभद्रः। गैरिमित्रः। यायातः। ग्रन्थे इति किम्? सुभ्द्राम् अधिकृत्य कृतः प्रासादः। लुबाख्यायिकार्थस्य प्रत्ययस्य बहुलम्। वासवदत्ताम् अधिकृत्य कृता आख्यायिका वासवदत्ता। सुमनोत्तरा। उर्वशी। न च भवति। भिमरथी।
लघु-सिद्धान्त-कौमुदी
अधिकृत्य कृते ग्रन्थे ११०९, ४।३।८७

शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः॥
न्यासः
अधिकृत्य कृते ग्रन्थे। , ४।३।८७

ननु "कृते" इति कर्मणि निष्ठा, ततश्च तयाऽभिहितत्वात् कर्मणो द्वितीया न प्राप्नोति? इत्याह-- "अधिकृत्येत्येतपेक्षया द्वितीया" इति। ल्यबन्तेन या क्रियाऽभिधीयते तदपेक्षया द्वितीया, न च तस्या यत्कर्म तत्केनचिदभिहितम्। निष्ठया हि ग्रन्थात्मकमेव कर्माभिहितम्, न तु ल्यबन्तक्रियाया यत्कर्म सुभद्रादिकं तदपि। गिरिमित्त्रमधिकृत्य कृतो "गैरिमित्त्रः"। ययातिमधिकृत्य "यायातः"। "लुप्" इत्यादि। आख्यायिकायै इति तादर्थ्ये चतुर्थी। आख्यायिकार्थमाख्यायिकामभिधातुं प्रत्ययस्य लुग्भवतीत्यर्थः॥
बाल-मनोरमा
अधिकृत्य कृते ग्रन्थे १४४६, ४।३।८७

अधिकृत्य। तदित्येवेति। "अदिकृत्य कृतो ग्रन्थः" इत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युरित्यर्थः। शारीरकमिति। शरीरस्यायं शारीरः=जीवात्मा, तमित्यर्थः। तस्येदमित्यणन्तात्स्वार्थे कः। शारीरकीय इति। वृद्धत्वाच्छः।

तत्त्व-बोधिनी
अधिकृत्य कृते ग्रन्थे ११३३, ४।३।८७

तदित्येवेति। "अधिकृत्ये"त्यतदपेक्षयाऽत्र[अपि]द्वितीया। शारीरकीयैति। कुत्सितं शरीरं शरीरकं, तत्सम्बन्धी शरीरको जीवात्मा, तमधिकृत्य=प्रस्तुत्य कृतो ग्रन्थः शारीरकीयः=चतुर्लक्षणीसूत्रसंदर्भः। "वृद्धाच्छः"। अत्र वार्तिकं "लुबाख्ययिकाभ्यो बहुल"मिति तादथ्र्य एषा चतुर्थी। "अख्यायिका"नाम गद्यरूपो ग्रन्थविशेषः। अतएवाख्यानाऽ‌ऽख्यायिकयोस्तत्र तत्र भेदेनोपादानम्। आख्यायिकाभिधानाय यः प्रत्यय उत्पन्नस्तस्य बहुलं लुगित्यर्थः। वासवदत्तामधिकृत्य कृता आख्यायिका---वासवदत्ता। सुमनोत्तरा। क्वचिन्न---भैमरथी। अभेदोपचारेण गतार्थत्वान्नेदं वार्तिकमावश्यकमिति मूले नोक्तम्।