पूर्वम्: ४।३।८८
अनन्तरम्: ४।३।९०
 
सूत्रम्
सोऽस्य निवासः॥ ४।३।८९
काशिका-वृत्तिः
सो ऽस्य निवासः ४।३।८९

सः इति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं निवासः चेत् स भवति। निवसन्त्यस्मिन् निवासो देश उच्यते। स्रुघ्नो निवासो ऽस्य स्रौघ्नः। माथुरः। राष्ट्रियः।
लघु-सिद्धान्त-कौमुदी
सोऽस्य निवासः १११०, ४।३।८९

स्रुग्घ्नो निवासोऽस्य स्रौग्घ्नः॥
न्यासः
सोऽस्ये निवासः। , ४।३।८९

बाल-मनोरमा
सोऽस्य निवासः १४४८, ४।३।८९

सोऽस्य निवासः। अस्मिन्नर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः। "यत्र संप्रत्युष्यते स निवास" इति भाष्यम्।

तत्त्व-बोधिनी
सोऽस्य निवासः ११३५, ४।३।८९

सोऽस्य निवासः। "स"इति प्रथमान्तादस्येति षष्ठ()र्थे यथा विहितः प्रत्ययः स्याद्यः प्रथमान्तर्थः स निवासश्चेत्। रुआउग्घ्नो निवास इति।निवासाधिकरणमित्यर्थः। नन्वस्येति कृद्योगे कर्तरि षष्ठी। तथा च विशेषणविशेष्यभावव्यत्यासात्रुआउघ्नाधिकरणवासकर्तेह वृत्त्यर्थः, तथा च "तत्र भवः"इत्येव सिद्धं किमनेनेति चेत्()। अत्राहुः----बासस्य चेतनमात्रकर्तृकतया प्रसिद्धत्वात्प्रकारकृतो भेदोऽस्तीति नास्ति वैयथ्र्यं। "वसन्ति हि प्रेम्णि गुणा न वस्तुनी"त्यादौ तूपचारो बोध्य इति।