पूर्वम्: ४।३।९२
अनन्तरम्: ४।३।९४
 
सूत्रम्
सिन्धुतक्षशिलाऽ‌ऽदिभ्योऽणञौ॥ ४।३।९३
काशिका-वृत्तिः
सिन्धुतक्षशिलाऽअदिभ्यो ऽणञौ ४।३।९३

आदिशब्दः प्रत्येकम् अभिसम्बध्यते। सिन्ध्वादिभ्यः प्रातिपदिकेभ्यः तक्षशिलादिभ्यश्च यथासङ्ख्यम् अणञौ प्रत्ययौ भवतः सो ऽस्य अभिजनः इत्येतस्मिन् विषये। सैन्धवः। वार्णवः। सिन्धु। वर्णु। गन्धार। मधुमत्। कम्बोज। कश्मीर। साल्व। किष्किन्धा। गदिका। उरस। दरत्। ये तु कच्छादिषु पठ्यन्ते सिन्धुवर्णुप्रभृतयः, तेभ्यस् तत एव अणि सिद्धे मनुष्यवुञो बाधनार्थं वचनम्। तक्षशिलादिभ्यः खल्वपि ताक्षशिलः। वात्सोद्धरणः। तक्षशिला। वत्सोद्धरण। कौमेदुर। कण्डवारण। ग्रामणी। सरालक। कंस। किन्नर। संकुचित। सिंहकोष्ठ। कर्णकोष्ठ। बर्बर। अवसान।
न्यासः
सिन्धुतक्षसिलादिभ्योऽणञौ। , ४।३।९३

"प्रभृतयः" इति। प्रभृतिशब्देन मधु, वसन्त, कम्बोज, साल्व,कश्मीर-- इत्येते गृह्रन्ते। {गन्धार इति मु।पाठः गन्धारि इति प्राचीनमुद्रित पाठः।}किष्किन्धा, "{नास्ति गण पाठे}सारदि, "{उरस काशिका}उरस्, दरत्--- इत्येतेषाम् "अवृद्धादपि" ४।२।१२४ इत्यादिना वुञि प्राप्ते वचनम्। तक्षशिलादिष्वपि कौमेदुर, काण्()डवारण, ग्रामणी-- इत्येतेषां "वृद्धाच्छः" ४।२।११३ इति छे प्राप्ते। शेषाणां "प्राग्दीव्यतोऽण्" ४।१।८३ इत्यणि॥
बाल-मनोरमा
सिन्धुतक्षशिलादिभ्योऽणञौ १४५२, ४।३।९३

सिन्धुतक्ष। सैन्धव इति। सिन्धुर्देशविशेषोऽभिजनोऽस्येति विग्रहः।

तत्त्व-बोधिनी
सिन्धुतक्षशिलादिभ्योऽणञौ ११३८, ४।३।९३

सिन्धुतक्ष। सिन्धुः वर्णुः गन्धारःकम्बोजादयः सिन्ध्वादयः। ते तु प्रायेण कच्छादिष्वपि पट()न्ते। तेभ्योऽणि तत एव सिद्धे मनुष्यवुञो बाधनार्थं वचनम्। तक्षशिला वत्सोद्धरणा बर्बरेत्यादयस्तक्षशिलादयः।