पूर्वम्: ४।३।९३
अनन्तरम्: ४।३।९५
 
सूत्रम्
तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः॥ ४।३।९४
काशिका-वृत्तिः
तूदीशलातुरवर्मतीकूचवाराड् ठक्छण्ढञ्यकः ४।३।९४

तूद्यादिभ्यश्चतुर्भ्यः शब्देभ्यो यथासङ्ख्यं चत्वार एव ढक् छण् ढञ् यकित्येते प्रत्यया भवन्ति सो ऽस्य अभिजनः इत्येतस्मिन् विषये। अणो ऽपवादः। तौदेयः। शालातुरियः। वार्मतेयः। कौचवार्यः।
न्यासः
तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः। , ४।३।९४

बाल-मनोरमा
तूदीसलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः १४५३, ४।३।९४

तुदीसलातुर। तुदी, सलातुर, वर्मती, कूचवार--एभ्यः प्रथमान्तेभ्यो ढक्, छण्, ढञ्, यक् एते स्युः अस्याभिजन इत्यर्थे।