पूर्वम्: ४।३।९४
अनन्तरम्: ४।३।९६
 
सूत्रम्
भक्तिः॥ ४।३।९५
काशिका-वृत्तिः
भक्तिः ४।३।९५

समर्थविभक्तिः प्रत्ययार्थश्च अनुवर्तते। अभिजन इति निवृत्तम्। स इति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं भक्तिश्चेद् तद् भवति। भज्यते सेव्यते इति भक्तिः। स्रुघ्नो भक्तिरस्य स्रौघ्नः। माथुरः। राष्ट्रियः।
न्यासः
भक्तिः। , ४।३।९५

"भज्यते सेव्यत इति भक्तिः" इति। "भज सेवायाम्" (धा।पा।९९८) इत्येतस्मात् कर्मसाधनः क्तिन्॥
बाल-मनोरमा
भक्तिः १४५४, ४।३।९५

भक्तिः। अनुवर्तते इति। सोऽस्य भक्तिरित्यर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः।