पूर्वम्: ४।३।९८
अनन्तरम्: ४।३।१००
 
सूत्रम्
गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्॥ ४।३।९९
काशिका-वृत्तिः
गोत्रक्षत्रियाऽख्येभ्यो बहुलं वुञ् ४।३।९९

गोत्राऽख्येभ्यः क्षत्रियाऽख्येभ्यश्च प्रातिपदिकेभ्यः बहुलं वुञ् प्रत्ययो भवति सो ऽस्य भक्तिः इत्येतस्मिन् विषये। अणो ऽपवादः। वृद्धाच् छां परत्वाद् बाधते। ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः। औपगवकः। कापटवकः। क्षत्रियाऽख्येभ्यः नाकुलकः। साहदेवकः। साम्बकः। आख्याग्रहणं प्रसिद्धक्षत्रियशब्दपरिग्रहार्थं, यथाकथंचित् क्षत्रियवृत्तिभ्यो मा भूत्। बहुलग्रहणात् क्वचिदप्रवृत्तिरेव। पाणिनो भक्तिरस्य पाणिनीयः। पौरवीयः।
न्यासः
गोत्रक्षत्त्रियाख्येभ्यो बहुलं वुञ्। , ४।३।९९

"ग्लौचुकायनकः। म्लौचुकायनकः" इति। ग्लुचुकम्लुचुकशब्दाभ्यां "प्राचावृद्धात् फिन्" ४।१।१६०तदन्ताद्()वुञ्। आख्याग्रहणं किमर्थम्? न गोत्रक्षत्त्रियेभ्य इत्येवोच्येत? इत्यत आह-- "आख्याग्रहणम्" इत्यादि। यद्याख्याग्रहणं न क्रियेत, ततो येऽपि यथाकथञ्चित् क्षत्त्रिये वर्तन्ते तेभ्योऽपि स्यात्, नेष्यते; तस्मात् प्रसिद्धक्षत्त्रियपिरग्रहार्थमाख्याग्रहणं क्रियते। तेनह न भवति-- विद्वान् क्षत्त्रियो भक्तिरस्येति। न विद्वच्छब्दः क्षत्त्रियशब्द इति प्रसिद्धः। क्षत्त्रियशब्दस्य तु सामानाधिकरण्यात् क्षत्त्रिये वृत्तिर्गम्यते। "पाणिनीयः" इति। पाणिनोऽपत्यमित्यण्; "गाथिविदथ" ६।४।१६५ इत्यादिना प्रकृतिभावः, पाणिनो भक्तिरस्येति "वृद्धाच्छः" ४।२।११३ "पाणिनीयः"। पौरवो भक्तिरस्येति "पौरवीयः"॥
बाल-मनोरमा
गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् १४५८, ४।३।९९

गोत्रक्षत्रिया। गोत्रप्रत्ययान्तेभ्यः क्षत्रियवाचिभ्यश्चोक्तविषये बहुलं वुञ्स्यादित्यर्थः। इह न पारिभाषिकं गोत्रम्। छै बाधते इति। "औपगवक इत्यादी"विति शेषः। ग्लुचुकायनिरिति। "प्राचामवृद्धा"दिति फिनि ग्लुचुकायनिशब्दः। नाकुलक इति। क्षत्रियाख्योदाहरणम्।

तत्त्व-बोधिनी
गोत्रक्षत्रियाख्योभ्यो बहुलं वुञ् ११४०, ४।३।९९

वृद्धाच्छं बाधत इति। औपगवो भक्तिरस्य औपगवकः।