पूर्वम्: ४।३।१६६
अनन्तरम्: ४।४।२
 
सूत्रम्
प्राग्वहतेष्ठक्॥ ४।४।१
काशिका-वृत्तिः
प्राग् वहतेष् ठक् ४।४।१

तद् वहति रथयुगप्रासङ्गम् ४।४।७६ इति वक्ष्यति। प्रागेतस्माद् वहतिसंशब्दनाद् यानर्थाननुक्रममिष्यामः, ठक् प्रत्ययस् तेष्वधिकृतो वेदितव्यः। वक्ष्यति तेन दीव्यति खनति जयति जितम् ४।४।२ इति। अक्षैर् दीव्यति आक्षिकः। ठक्प्रकरणे तदाहेति माशब्दादिभ्य उपसङ्ख्यानम्। माशब्दः इत्याह माशब्दिकः। नैत्यशब्दिकः कार्यशब्दिकः। वाक्यादेतत् प्रत्ययविधानम्। आहौ प्रभूतादिभ्यः। प्रभूतम् आह प्राभूतिकः। पार्याप्तिकः। क्रियाविशेषणत् प्रत्ययः। पृच्छतौ सुस्नातादिभ्यः। सुस्नतं पृच्छति सौस्नातिकः। सौखरात्रिकः। सौखशायनिकः। गच्छति परदारादिभ्यः। परदारान् गच्छति पारदारिकः। गौरुतल्पिकः।
लघु-सिद्धान्त-कौमुदी
प्राग्वहतेष्ठक् १११९, ४।४।१

तद्वहतीत्यतः प्राक् ठगधिक्रियते॥
न्यासः
प्राग्वहतेष्ठक्। , ४।४।१

अथ प्राग्ग्रहणं किमर्थम्? अर्थविशेषे प्रत्ययान्तरेणापवादेन निवर्तितस्य ठक उत्तरस्मिन् ग्रन्थान्तरे पुनरुपस्थानं यथा स्यादित्यवेमर्थम्। तद्यथा-- "संस्कृतम्" ४।४।३ इत्येतस्मिन्नर्थविशेषे "कुलत्थकोपधात्" ४।४।४ इत्यणा निवर्त्तितस्योत्तरत्रार्थान्तरे "तरति" ४।४।५ इत्येतस्मिन्नर्थे पुनरुपस्थानं यथा स्यादिति। "ठक्प्रकरणे" इत्यादि। तदिति कर्माभिधायिभ्य आहेत्येतस्मिन्नर्थे माशब्दादिभ्यष्ठक उपसंख्यानन्। "वाक्यादेतत् प्रत्ययविधानम्" इति। स एव हि वाक्यार्थ इति नावमृष्टः कर्मबावमुपगतः। तदाहेति निर्दिश्यते--तदभिदायिन एव वाक्यात् प्रत्यय इति। पदसमुदायो हि वाक्यमिति। "मा" इत्येतस्य च "शब्द" इत्येतस्य च पदस्य यः पदस्य यः समुदायस्तद्वाक्यम्। एवमन्यत्रापि वेदितव्यम्। कथं पुनः प्रातिपदिकाधिकारे वाक्यात्प्रत्ययविधिः? इत्यत आह--- "प्रभूतादिभ्यः" इति। पुनर्वचनात्। यदि ह्रनेनापि प्रातिपदिकादेव प्रत्ययविधिः स्यादेवं सति "{आहेति प्रभूतादिभ्यः---प्रांउ।पाठः} आहौ प्रभूतादिभ्यः" (वा।४८३) इति पुनरुपसंख्यानमनर्थकं स्यात्; अनेनैव सिद्धत्वात्। प्रभूतादयोऽपि हि माशब्दादयो भविष्यन्ति, ते च कर्माभिधायिन एव प्रत्ययमुत्पादयन्ति; क्रियाविशेषणाभिधायित्वात्। क्रियाविशेषणानां हि कर्मत्वं "तत्प्रत्यनुपूर्वमीपलोमकूलम्" ४।४।२८ इत्यत्र प्रतिपादयिष्यते-- प्रत्ययार्थोऽप्यहेति। स एव तस्मादाहेति प्रभूतादिभ्य इतिपुनर्वचनाद्वाक्यादेव प्रत्यविधानं विज्ञायते। "क्रियाविसेषणात्" इति। प्रभूतादिशब्दः क्रियाविशेषणाभिधायित्वादभिधानेऽभिधेयोपचारं कृत्वा क्रियाविशेषमशब्देनोक्तः॥
बाल-मनोरमा
प्राग्वहतेष्ठक् १५२७, ४।४।१

प्राग्वहतेष्ठक्। वहतीत्येकदेशेन "तद्वहति रथयुगप्रासङ्ग"मिति सूत्रं परामृश्यते इत्यभिप्रेत्याह--तद्वहतीत्यत आति।

तदाहेति। इतिशब्दो व्युत्क्रमेण तच्छब्दानन्तरं द्रष्टव्यः। तदित्याहेत्यर्थे माशब्द--स्वागतैत्यादिशब्देभ्यष्ठक उपसङ्ख्यानमित्यन्वयः। "त"दित्यनेन वाक्यार्थो विवक्षितः। इतिशब्दस्तस्य वाक्यार्थस्य कर्मत्वं गमयति। "मा शब्दं कार्षी"रित्याहेत्याद्यर्थे तद्वाक्यावयवात् "माशब्द" इत्यादिशब्दाट्ठगिति यावत्। माशाब्दिक इति। शब्दं मा कार्षीरित्यन्वयः। "माङि लुङि"ति लोडर्थे लुङ्। "न माड()ओगे" इत्यजागमनिषेधः। शब्दं न कुरु इत्यर्थः। अत्र आहेति ब्राऊञ्धात्वर्थव्यक्तवचनक्रियां प्रति "मा शब्दं कार्षी"रिति वाक्यार्थः कर्म। तद्वाक्यैकदेशो माशब्देति समुदायः। तस्मान्निर्विभक्तिकादयं प्रत्ययः। न हि माशब्देति समुदायाद्विभक्तिरस्ति। एवंच माशब्देति समुदायाट्ठकि "माशब्दिक" इति रूपम्। "मा शब्दः कारी"ति पाठे तु कारीति कर्मणि लुङ। शब्दो न कार्य इत्यर्थः। नच तदाहेत्यर्थे माशब्दादिभ्यष्ठगिति यथाश्रुतमब्युपगम्य माशब्दमाहेत्याद्यर्थे माशब्देत्यादिशब्देभ्यो द्वितीयान्तेभ्यष्ठगित्येव कुतो न व्याख्यायत इति वाच्यम्, एवं सति "आहौ प्रभूतादिभ्यः" इत्युत्तरवार्तिकारम्भवैयर्थध्यापत्तेरिति भावः।

तत्त्व-बोधिनी
प्राग्वहतेष्ठक् ११८८, ४।४।१

तदाहेति माशब्दादिभ्य उपसंख्यानम्। तदाहेतीति। वाक्यादयं प्रत्ययविधिः, शब्दो माकारीति यो निशेधति स "माशब्दिक"इत्युच्यते। तथा नित्यः शब्द इति य आह स "नैत्यशब्दिकः"। "कार्यशब्दिकः"। इह वाक्याद्द्वितीया न सम्भवति, अप्रतिपदिकत्वात्। तेन तच्छब्देन कर्ममात्रं निर्दिश्यते। तच्च वाक्यार्थरूपमित्याहुः। ऐज्य स्यादिति। "न य्वाभ्या" मिति प्राप्त ऐजागमोऽनेन निषिध्यते, "न कर्मे"त्यतो नञनुवर्तनादिति भावः।