पूर्वम्: ४।४।१०१
अनन्तरम्: ४।४।१०३
 
सूत्रम्
कथाऽ‌ऽदिभ्यष्ठक्॥ ४।४।१०२
काशिका-वृत्तिः
कथादिभ्यष् ठक् ४।४।१०२

कथादिभ्यः शब्देभ्यः ठक् प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतो ऽपवादः। कथायां साधुः काथिकः। वैकथिकः। कथा। विकथा। वितण्डा। कुष्टचित्। जनवाद। जनेवाद। वृत्ति। सद्गृह। गुण। गण। आयुर्वेद। कथादिः।
न्यासः
कथादिभ्यष्ठक्। , ४।४।१०२

बाल-मनोरमा
कथादिभ्यष्ठक् १६३४, ४।४।१०२

कथादिभ्यष्ठगित्यादि स्पष्टम्।