पूर्वम्: ४।४।१०३
अनन्तरम्: ४।४।१०५
 
सूत्रम्
सभाया यः॥ ४।४।१०४
काशिका-वृत्तिः
सभायाः यः ४।४।१०५

सभाशब्दाद् यः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतो ऽपवादः। स्वरे विशेषः। सभायां साधुः सभ्यः।
लघु-सिद्धान्त-कौमुदी
सभाया यः ११३९, ४।४।१०४

सभ्यः॥
लघु-सिद्धान्त-कौमुदी
इति यतोऽवधिः। (प्राग्घितीयाः) ८ ११३९, ४।४।१०४

लघु-सिद्धान्त-कौमुदी
अथ छयतोरधिकारः ११३९, ४।४।१०४

न्यासः
सभाया यः। , ४।४।१०४

"स्वरे विशेषः" इति। यति सति "यतोऽनावः" ६।१।२०७ इत्याद्युदात्तं स्यात्, ये तु सति प्रत्ययस्वरेणान्तोदात्तं स्यात्॥