पूर्वम्: ४।४।१०७
अनन्तरम्: ४।४।१०९
 
सूत्रम्
सोदराद्यः॥ ४।४।१०८
काशिका-वृत्तिः
सोदराद् यः ४।४।१०९

सोदरशब्दात् सप्तमीसमर्थात् शयितः इत्येत्स्मिन्नर्थे यः प्रत्ययो भवति। विभाषोदरे ६।३।८७। इति सूत्रेण यकारादौ प्रत्यये विवक्षिते प्रागेव समानस्य सभावः। समानोदरे शयितः सोदर्यः भ्राता। ओ च उदात्तः इति न अनुवर्तते। यकारे स्वरः।
न्यासः
सोदराद्यः। , ४।४।१०८

एकदेशविकृतस्यानन्यत्वात् सोदर्शशब्दादपि पूर्वेण यत्येव प्राप्ते यो विधीयते। "विभाषोदरे" ६।३।८७ इति विषयसप्तमीति मत्वाऽ‌ऽह--- "यकारादौ प्रत्यये" इत्यादि। "ओ चोदात्त इति नानुवत्र्तते" इति। प्रत्यय विधानसामथ्र्याद्य उदात्तः॥
बाल-मनोरमा
सोदराद्यः ८९, ४।४।१०८

सोदराद्यः। "सप्तम्यन्ताच्छयित इत्यर्थे" इति शेषः। तित्त्वाऽभावात्प्रत्ययस्वेरणान्तोदात्तोऽयम्। "विभाषोदरे"इति सभावः। "अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चती"त्यत्र तु समानपर्यायसहशब्दस्य बहुव्रीहौ "वोपसर्जनस्ये"ति सभावो बोध्यः। एवं "यत्र भ्राता सहोदरः" इत्याद्यपि सिद्धम्।

*****इति बालमनोरमायाम् प्राग्घितीयाः।*****

*****अथ प्रकृतिभावः******

तत्त्व-बोधिनी
सोदराद्यः १४८३, ४।४।१०८

सोदराद्यः। "ओ चोदात्तः"इति नानुवर्तते। "विभाषेदरे"इति समानस्य सभावः। तत्र "तीर्थे ये"इत्यतोऽनुवृत्तं "ये इत्येतद्विषयसप्तमी। तेन सोदर इत्यस्माद्यः। प्रत्ययस्वरः। प्राग्वदीति। समानोदारे शयित इत्येवार्थ इत्यर्थः। कथं तर्हि "अपनेथानं तु गच्छन्तं सोदरोऽपि विमुञ्चती"ति मुरारिरिति चेत्। अत्राहुः----सह=समानमुदरं यस्य सोदरः। "वोपसर्जनस्ये"ति सहस्य सभावः। तस्य च वैकल्पिकत्वात् "यत्र भ्राता सहोदरः"इत्याद्यपि सिद्धमिति।

इति तत्वबोधिन्यां प्राग्घितीयाः।