पूर्वम्: ४।४।११४
अनन्तरम्: ४।४।११६
 
सूत्रम्
अग्राद्यत्॥ ४।४।११५
काशिका-वृत्तिः
अग्राद् यत् ४।४।११६

अग्रशब्दात् यत् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अग्रे भवम् अग्र्यम्। किम् अर्थम् इदं यावता सामान्येन यद् विहित एव? घच्छौ च ४।४।११६ इति वक्ष्यति ताभ्यां बाधा मा भूतिति पुनर् विधीयते।
न्यासः
अग्राद्यत्। , ४।४।११५

"सामान्येन यद्विहितः" इति। "भवे च्छन्दसि" ४।४।१०९ इत्यनेन। अथ यद्()ग्रहणं किमर्थम्, न यथाविहितमेवोच्येत? नैवं शक्यम्; "अग्रश्चाड्डिमच्" (वा। ४४८) इत्येवामग्रशब्दाड्()डिमजप्युक्तः, तत्र यथा विहिते प्रत्यय उच्यमाने डिमचपि स्यात्। तस्माद्यद्()ग्रहणं कत्र्तव्यम्॥