पूर्वम्: ४।४।११५
अनन्तरम्: ४।४।११७
 
सूत्रम्
घच्छौ च॥ ४।४।११६
काशिका-वृत्तिः
घच्छौ च ४।४।११७

अग्रशब्दात् यत् घच्छौ च प्रत्यया भवन्ति तत्र भवः इत्येतस्मिन् विषये। अग्र्यम्, अग्रियम्, अग्रीयम्। चकारः तुग्राद् घन् ४।४।११४ इत्यस्य अनुकर्षणार्थः। अग्रियम्। स्वरे विशेषः।
न्यासः
घच्छौ च। , ४।४।११६

"स्वरे विशेषः" इति। घे विहितेऽन्तोदात्तत्वं स्यात्, घनि तु सत्याद्युदात्तत्वं भवति॥