निर्देशादेव समर्थविभक्तिः। दूतशब्दात् षष्ठीसमर्थाद् भागे कर्मणि च अभिधेये यत् प्रत्ययो भवति। भागः अंशः। कर्म क्रिया। यदग्ने यासि दूत्यम्। दूतभागः दूतकर्क्म वा।
भावे "तस्येदम्"
४।३।१२० इत्यणि प्राप्ते "गुणवचनब्राआहृणादिभ्यः"
५।१।१२३ इति ष्यञि यतो विधाम्। येषां "सख्युर्यः"
५।१।१२५ इत्यत्र "दूतवणिग्भ्याञ्च" (वा।५४०) इत्युपसंख्यायते, तेषां कर्मणि ये प्राप्ते॥