निर्देशादेव समर्थविभक्तिः। रक्षःशब्दाद् यातुशब्दाच् च षष्ठीसमर्थाद् हननी इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। हन्यते ऽन्या इति हननी। या वां मित्रावरुणौ रक्षस्या तनू यातव्या। रक्षसां हननी। यातूनां हननी। बहुवचनं स्तुतिवैशिष्ट्यज्ञापनार्थम्। बहुनां रक्षसां हननेन तनूः स्तूयते।
"निर्देशादेव समर्थविभक्तिः" (इति)। सा पुनः षष्ठी "कर्त्तुकर्मणोः कृति"
२।३।६५ इति कर्मणि द्रष्टव्या। योग्यतामात्रे विवक्षिते हन्यतेऽनयेति हननी, करणे ल्युट्, "टिड्ढाणञ्()"
४।१।१५ इति ङीप्। ननु च रक्षीयातुशब्दयोर्द्वित्वाद्()द्विवचनेन भवितव्यम्,
तत्कथमिदमुक्तम्? वचनसामथ्र्यात् सम्भावनमेव स्तुतिरिति दर्शयितुमाह---"बहुवचनम्" इत्यादि। योगश्चायं "तस्येदम्"
४।३।१२० इत्यणि प्राप्ते वेदितव्यः॥