पूर्वम्: ४।४।१२०
अनन्तरम्: ४।४।१२२
 
सूत्रम्
रेवतीजगतीहविष्याभ्यः प्रशस्ये॥ ४।४।१२१
काशिका-वृत्तिः
रेवतीजगतीहविष्याभ्यः प्रशस्ये ४।४।१२२

रेवत्यादिभ्यः षष्ठीसमर्थेभ्यः प्रशस्ये वाच्ये यत् प्रत्ययो भवति। प्रशंसनं प्रशस्यम्, भावे क्यप् प्रत्ययो भवति। यद्वो रेवती रेवत्यम्। यद्वो जगती जगत्यम्। यद्वो हविष्या हविष्यम्। हविषे हिता हविष्याः, तासां प्रशंस्नं हविष्यम्। यस्य इति च ६।४।१४८ इति लोपे कृते हलो यमां यमि लोपः ८।४।६३ इति लोपः।
न्यासः
रेवतीजगतीहविष्याभ्यः प्रशस्ये। , ४।४।१२१

"षष्ठीसममर्थेभ्यः" इति। सामथ्र्याद्धि षष्ठयेव समर्थविभक्तिर्विज्ञायते। यथा हि-- "{शंस----प्रांउ।पाठ}शंसु स्तुतौ" (धा।या।७२८) इत्यतोऽस्मादेव निपातनाद्भावे क्यप्प्रत्ययः; "कृत्यल्युटो बहुलम्" ३।३।११३ इति बहुलवचनात्। तत्रावश्यं कृद्योगलक्षणया षष्ठ()आ भवितव्यम्। अयमपि योगः पूर्ववदणि प्राप्ते वेदितव्यः॥