पूर्वम्: ४।४।१२३
अनन्तरम्: ४।४।१२५
 
सूत्रम्
तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः॥ ४।४।१२४
काशिका-वृत्तिः
तद्वानासाम् उपधानो मन्त्र इति इष्टकासु लुक् च मतोः ४।४।१२५

तद्वानिति निर्देशादेव समर्थविभक्तिः। मतुबन्तात् प्रातिपदिकात् प्रथमासमर्थादासाम् इति षष्ठ्यर्थे यत् प्रत्ययो भवति, यत् प्रथमासमर्थम् उपधानो मन्त्रश्चेत् स भवति, यत् तदासाम् इति निर्दिष्टम् इष्टकाश्चेत् ता भवन्ति। लुक् च मतोः इति प्रकृतिनिर्हृआसः। इतिकरणस् ततश्चेद् विवक्षा। तद्वानित्यवयवेन समुदायो व्यपदिश्यते। वर्चःशब्दो यस्मिन् मन्त्रे ऽस्ति स वर्चस्वान्। उपधीयते येन स उपधानः। चयनवचनः इत्यर्थः। वर्चस्वानुपधानमन्त्रः आसाम् इष्टकानाम् इति विगृह्य यति विहिते मतोर् लुकि कृते, वर्चस्या उपदधाति, तेजस्या उपदधाति। पयस्याः। रेतस्याः। तद्वानिति किम्? मन्त्रसमुदायादेव मा भूत्। उपधानः इति किम्? वर्चस्वानुपस्थानमन्त्रः आसाम् इत्यत्र मा भूत्। मन्त्रः इति किम्? अङ्गुलिमानुपधानो हस्तः आसाम् इत्यत्र मा भूत्। इष्टकासु इति किम्? अङ्गुलिमानुपधानो हस्त आसाम् इत्यत्र मा भूत्। इतिकरणो नियमार्थः। अनेकपदसम्भवे ऽपि केनचिदेव पदेन तद्वान् मन्त्रो गृह्यते, न सर्वेण।
न्यासः
तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः। , ४।४।१२४

स विवक्षितोऽवयवोऽस्मिन्निति तद्वान्। कः पुनरसौ? समुदायः। अत एवाह-- "तद्वानित्यवयवेन समुदायो निर्दिश्यते" इति। एतेनैकदेशादिदं प्रत्ययविधानमित्युक्तं भवति। " वर्चःशब्दोऽस्मिन् मन्त्रेऽस्ति" इत्यादिना तत्समुदायं प्रदर्शयति। "चयनवचनः" इति। चिनोतेरेव करणे लुप्। "तेजस्या"इति। तेजःशब्दोऽस्य मन्त्स्यास्तीति तेजस्वानुपधानमन्त्रः। शेषं विग्रहवाक्यादि पूर्ववत्। मन्त्रादेव, समुदायान्मा भत्। यद्यपि समुदायः प्रातिपदिकमं न भवति, तथापि वचनसामथ्र्यापि स्यात्। किं तर्हि वचनान्न लभ्यत इत्यभिप्रायः। "इतिकरणो नियमार्थः" इति। असतीहेतिकरणे मन्त्रे बहूनां सम्भवे सर्वेण पदेन तद्वान् मन्त्रो गृह्रते। अ()स्मस्तु सति तेन नियमार्थेन येनैव पदेन तद्वता मन्त्रेणेष्टकोपलक्ष्यते,तेनैव सर्वो मन्त्रो गृह्रत इत्येतदुपपन्नं भवति। अथ मतुब्ग्रहणं किमर्थम्, यावता मतुबन्तादयं विधीयते, तत्र प्रत्ययस्य लुग् विज्ञायमानो विधानसामथ्र्याच्च मतुप एव भविष्यतीत्यपार्थकं मतुब्ग्रहणं? नैवम्; उत्तरत्र "अ()इआमानण्" ४।४।१२५ इत्यतर् ह्रुपवानमात्रावयवे द्वौ मत्वर्थीयौ-- इनिमतुपौ, तत्रासति मतुब्ग्रहणे लुक् स्यात्; अस्मिन् सति मतुप एव भवति॥