पूर्वम्: ४।४।१२४
अनन्तरम्: ४।४।१२६
 
सूत्रम्
अश्विमानण्॥ ४।४।१२५
काशिका-वृत्तिः
अश्विमानण् ४।४।१२६

अश्विशब्दो यस्मिन् मन्त्रे ऽस्ति सो ऽश्विमान्। अश्विमच्छब्दादण् प्रत्ययो भवति। पूर्वस्य यतो ऽपवादः। अश्विमानुपधानो मन्त्रः आसामि ष्टकानाम् इति विगृह्याण् विधीयते, तत्र मतुपो लुकि कृते इनण्यनपत्ये ६।४।१६४ इति प्रकृतिभावः। आश्विनीरुपदधाति।
न्यासः
अ�इआमानण्। , ४।४।१२५

"आ()इआनीः" इति। "टिड्ढाणञ्" ४।१।१५ इति ङीप्॥