पूर्वम्: ४।४।१२९
अनन्तरम्: ४।४।१३१
 
सूत्रम्
वेशोयशआदेर्भगाद्यल्॥ ४।४।१३०
काशिका-वृत्तिः
वेशोयशाऽदेर् भगाद् यल् ४।४।१३१

मत्वर्थे इत्येव वेशोयशसी आदौ यस्य प्रातिपदिकस्य तस्माद् वेशोयशाऽदेर् भगान्तात् प्रातिपदिकात् मत्वर्थे यल् प्रत्ययो भवति। लकारः स्वरार्थः वेशोभगो विद्यते यस्य स वेशोभग्यः। यशोभग्यः। वेशः इति वलम् उच्यते। श्रीकामप्रयत्नमाहात्म्यवीर्ययशस्सु भगशब्दः। वेशश्च असौ भगश्च श्रीप्रभृतिर् वेशोभगः, सो ऽस्य अस्ति इति वेशोभग्यः।
न्यासः
वेशोयशादेर्भगाद्यल्। , ४।४।१३०

लित्करणं स्वरार्थम्॥