पूर्वम्: ४।४।१३६
अनन्तरम्: ४।४।१३८
 
सूत्रम्
मये च॥ ४।४।१३७
काशिका-वृत्तिः
मये च ४।४।१३८

सोमग्रहणं यश्च अनुवर्तते। मय इति मयडर्थो लक्ष्यते। सोमशब्दान् मयडर्थे यः प्रत्ययो भवति। आगतविकारावयवप्रकृता मयडर्थाः। हेतुम् अनुष्येभ्यो ऽन्यत्रस्यां रूप्यः ४।३।८१ मयट् च ४।३।८२, मयड्वा एतयोर् भाषायाम् अभक्ष्य आच्छादनयोः ४।३।१४१, तत्प्रकृतवचने मयट् ५।४।२१ इति। तत्र यथायोगं समर्थविभक्तिः। पिबाति सोम्यं मधु। सोमम् अयम् इत्यर्थः।
न्यासः
मये च। , ४।४।१३७

"{नास्तीयं पंक्तिः-- काशिका, पदमञ्जरी च}रूप्यमयटोऽपवादो योगः" इति। "मय इति मयडर्थो लक्ष्यते" इति। शब्दे कार्यासम्भवादिति भावः। "तत्र यथायोगं समर्थविभक्तिःर" इति। तत्रागतार्थ पञ्चमी, विकारावयवयोः षष्ठी। प्रकृतवचने प्रथमेति यथायोगार्थः॥