पूर्वम्: ४।४।१३७
अनन्तरम्: ४।४।१३९
 
सूत्रम्
मधोः॥ ४।४।१३८
काशिका-वृत्तिः
मधोः ४।४।१३९

यशब्दो निवृत्तः। मधुशब्दान् मयडर्थे यत्प्रत्ययो भवति। मधव्यान् स्तोकान्। मधुमयानित्यर्थः।
न्यासः
मधोः। , ४।४।१३८

मयडर्थ आगते प्रकृतवचने यथायोगं रूप्यमयटोः प्राप्तयोर्यद्विधीयते। तत्र मयटो हि "द्व्यचश्छन्दसि" ४।३।१४८ इति प्राप्तस्य "नोत्वद्वर्धविल्वात्" ४।३।१४९ इति प्रतिषेध उच्यते॥ Eन्द् ओf थे पगे इस् नोत् fओउन्द् श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचिता न्यासापरपर्याया काशिकाविवरणपञ्जिकाख्या काशिकाव्याख्या - द्वितीयो भागः पञ्चमोऽध्यायः प्रथमः पादः