पूर्वम्: ४।४।१४१
अनन्तरम्: ४।४।१४३
 
सूत्रम्
शिवशमरिष्टस्य करे॥ ४।४।१४२
काशिका-वृत्तिः
शिवशमरिष्टस्य करे ४।४।१४३

करोति इति करः प्रत्ययार्थः। तत्सामर्थ्यलभ्या षष्ठी समर्थविभक्तिः। शिवादिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः करे इत्येतस्मिन्नर्थे तातिल् प्रत्ययो भवति। शिवं करोति इति शिवतातिः। शंतातिः। अरिष्टतातिः।