पूर्वम्: ४।४।१४
अनन्तरम्: ४।४।१६
 
सूत्रम्
हरत्युत्सङ्गादिभ्यः॥ ४।४।१५
काशिका-वृत्तिः
हरत्युत्सङ्गाऽदिभ्यः ४।४।१५

तेन इत्येव। उत्सङ्गादिभ्यस् तृतियासमर्थेभ्यो हरति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। हरतिर् देशान्तरप्रापणे वर्तते। उत्सङ्गेन हरति औत्सङ्गिकः। औडुपिकः। उत्सङ्ग। उडुप। उत्पत। पिटक। उत्सङ्गादिः।
न्यासः
हरत्युत्सङ्गादिभ्यः। , ४।४।१५

बाल-मनोरमा
हरत्युत्सङ्गादिभ्यः १५४४, ४।४।१५

हरत्युत्सङ्गादिभ्यः। हरतीत्यर्थे तृतीयान्तेभ्य इत्सङ्गादिभ्यष्ठक् स्यादित्यर्थः।

तत्त्व-बोधिनी
हरत्युत्सङ्गादिभ्यः ११९८, ४।४।१५

हरत्युत्सङ्गादिभ्यः। एभ्यस्तृतीयान्तेभ्यष्ठक् स्यादुपादत्ते नयति वेत्यर्थे। उत्सङ्ग , उडुप, उत्थित, पिटक, पिटाक।