पूर्वम्: ४।४।१६
अनन्तरम्: ४।४।१८
 
सूत्रम्
विभाषा विवधात् (विवधवीवधात्)॥ ४।४।१७
काशिका-वृत्तिः
विभाषा विवधवीवधात् ४।४।१७

हरति इत्येव। विवधवीवधशब्दाभ्याम् तृतीयासमर्थाभ्यां विभाषा ष्ठन् प्रत्ययो भवति। तेन मुक्ते प्रकृतः ठग् भवति। विवधेन हरति विवधिकः। विवधिकी। वीवधिकः। विवधिकी। ठक् खल्वपि वैवधिकः। वैवधिकी। विवधवीवधशब्दौ समानार्थौ पथि पर्याहारे च वर्तेते।
न्यासः
विभाषा विवधवीवधात्। , ४।४।१७

"पर्याहारे" इति। परितः स ह्यियत इति पर्याहारः, मण्डलादिकमुच्यते॥
बाल-मनोरमा
विभाषा विवधात् १५४६, ४।४।१७

विभाषा विवधात्। "हरतीत्यर्थे तृतीयान्तात् ष्ठ"निति शेषः।

तत्त्व-बोधिनी
विभाषा विवधात् १२००, ४।४।१७

एकदेशविकृतस्येति। "वीवधाच्चेति वक्तव्य"मिति वार्तिकं न्यायसिद्धार्थकथनपरमिति भावः। वृत्तिकृत्तु सूत्रे वीवशब्दं प्रक्षिप्य "विभाषा विवधवीवधा"दिति पपाठ।