पूर्वम्: ४।४।१८
अनन्तरम्: ४।४।२०
 
सूत्रम्
निर्वृत्तेऽक्षद्यूतादिभ्यः॥ ४।४।१९
काशिका-वृत्तिः
निर्वृत्ते ऽक्षद्यूताऽदिभ्यः ४।४।१९

तेन इत्येव। अक्षद्यूतादिभ्यः तृतीयासमर्थेभ्यो निर्वृत्ते इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अक्षद्यूतेन निर्वृत्तम् आक्षद्यूतिकं वैरम्। जानुप्रहृतिकम्। अक्षद्यूत। जानुप्रहृत। जङ्घाप्रहृत। पादस्वेदन। कण्टकमर्दन। गतागत। यातोपयात। अनुगत। अक्षद्यूतादिः।
न्यासः
निर्वृत्तेऽक्षद्यूतादिभ्यः। , ४।४।१९

बाल-मनोरमा
निर्वृत्तेऽक्षद्यूतादिभ्यः १५४८, ४।४।१९

निर्वृत्तेऽक्षद्यूतादिभ्यः। निर्वृत्तमित्यर्थे तृतीयान्तेभ्योऽक्षद्यूतादिभ्यष्ठगित्यर्थः।