पूर्वम्: ४।४।२०
अनन्तरम्: ४।४।२२
 
सूत्रम्
अपमित्ययाचिताभ्यां कक्कनौ॥ ४।४।२१
काशिका-वृत्तिः
अपमित्ययाचिताभ्यां कक् कनौ ४।४।२१

निर्वृत्त इत्येव। अपमित्ययाचितशब्दाभ्यां यथासङ्ख्यं कक् कनित्येतौ प्रत्ययौ भवतः निर्वृत्ते इत्येतस्मिन्नर्थे। आपमित्यकम्। याचितकम्।
न्यासः
अपमित्ययाचिताभ्यां कक्कनौ। , ४।४।२१

"अपमित्य" इति। "उदीचां माङो व्यतीहारे" ३।४।१९ इति क्त्वा, तस्य ल्यबादेशे कृते,अपमित्येति भवति। तस्य च "क्त्वासोसुन्कसुनः" १।१।३९ इत्यव्ययसंज्ञा। तेन तृतीयासमर्थविभक्त्याधिकारेऽप्यविभक्तिकादेवास्मात् प्रत्ययविधिः॥ ननु च "संस्कृतम्" ४।४।३ इत्येव संसृष्टे प्रत्यययो भविष्यति, यत् पुनर्येन संसृष्टं तत्तेन संस्कृतं भवति? नैतत्; सतो ह्रुत्कर्षाधानं संस्कारः,एकभावः संसर्गः। न च तत्रोत्कर्षेण भवितव्यम्, स्वशुचिद्रव्यसंसर्गे स्वप्रकर्ष एव भवति, नोत्कर्षः। संसर्गमात्रे प्रत्यय इष्यते; तस्मात् संसृष्ट इति वक्तव्यमेव; एतदेव क्रियताम्; किं "संस्कृतम्" (४।४।३) इत्यनेन? असत्यपि संसर्गे यत्र संस्कृतमस्ति तत्रापि प्रत्यय इष्यते-- वैद्यिकः, न विद्यया संसर्ग उपपद्यते; संसर्गो द्रव्ययोरेव भवति, यथा--दण्डपुरुषयोः। मूर्तिमतस्तद्धर्मत्वात्, रन तु विद्या मूर्त्तिमती। कुलत्थकोलधादणो ४।४।४ विधानार्थं संस्कृतग्रहणं कत्र्तव्यम्। न हि संसृष्टमात्रे प्रत्यय इष्यते; किन्तु तत्कृतगुणाधाने॥
बाल-मनोरमा
अपमित्ययाचिताभ्यां कक्कनौ १५५०, ४।४।२१

अपमित्ययाचिताभ्याम्। ल्यबन्धमिति। "मेङ् प्रणिदाने" इत्यस्यमादिं()वनिमयार्थकात् "उदीचां माहो व्यतिहारे" इति क्त्वाप्रत्यये गतिसमासे ल्यपि "मयतेरिदन्यतरस्या"मिति इत्त्वे "ह्यस्वस्य पिती"ति तुगागमे अपमित्येत्यव्ययम्, "क्त्वातोसुन्कसुनः" इत्युक्तेरित्यर्थः। निर्वृत्तमित्यर्थे अपमित्येत्यव्ययात्प्रथमान्ताद्याचितशब्दाच्च तृतीयान्तात्कक् कन् च यथासङ्ख्यं स्यातामित्यर्थः। अपमित्येत्यंशे तृतीयान्तत्वाऽसंभवात्प्रथमान्ताद्याचितशब्दाच्च तृतीयान्तात्कक् कन् च यथासङ्ख्यं स्यातामित्यर्थः। अपमित्येत्यंशे तृतीयान्तत्वाऽसंभवात्प्रथमान्तादिति लभ्यते।

तत्त्व-बोधिनी
अपमित्ययाचिताभ्यां कक्कनौ १२०२, ४।४।२१

अपमित्येति। "उदीचां माङः"इति क्त्वाप्रत्यनेन सह गतिसमासः। क्त्वो ल्यप्। "मयतेरिदन्यतरस्या"मिति इत्त्वम्। "ह्यस्वस्ये"ति तुक्। ल्यबन्तादस्मात्तृतीयान्तात्प्रत्ययो न भवति, किन्तु वचनात्प्रथमान्तादेव।