पूर्वम्: ४।४।२२
अनन्तरम्: ४।४।२४
 
सूत्रम्
चूर्णादिनिः॥ ४।४।२३
काशिका-वृत्तिः
चूर्णादिनिः ४।४।२३

चूर्णशब्दादिनिः प्रत्ययो भवति संसृष्ते। ठको ऽपवादः। चूर्णैः संसृष्टाः चूर्णिनो ऽपूपाः। चूर्णिनो धानाः।
न्यासः
चूर्णादिनिः। , ४।४।२३

ननु च चूर्णेन ये संसृष्टास्तेषां चूर्णमस्ति, तत्र मत्वर्थीयेनैवेनिना सिद्धमिति तदपार्थकमिदम्? नैतत् ; अस्तिविवक्षायां मत्वर्थीयेन सिद्धं स्यात्, संसृष्टविवक्षायां पुनर्न सिध्यति, त हि ठक् स्यात्। ठको बाधनार्थत्वे कुतोऽस्यानर्थक्यम्॥
बाल-मनोरमा
चूर्णादिनिः १५५२, ४।४।२३

चूर्णादिनिः। "संसृष्टमित्यर्थे तृतीयान्ता"दिति शेषः।