पूर्वम्: ४।४।२४
अनन्तरम्: ४।४।२६
 
सूत्रम्
मुद्गादण्॥ ४।४।२५
काशिका-वृत्तिः
मुद्गादण् ४।४।२५

मुद्गशब्दादण् प्रत्ययो भवति संसृष्टे इत्येतस्मिन् विषये। ठको ऽपवादः। मौद्ग ओदनः। मौद्गी यवागूः।
न्यासः
मुद्गादण्। , ४।४।२५

बाल-मनोरमा
मुद्गादण् १५५४, ४।४।२५

मुद्गादण्। "तेन संसृष्टमित्यर्थे तृतीयान्ता"दिति शेषः। मौद्ग ओदन इति। मुद्गैः संसृष्ट इत्यर्थः।