पूर्वम्: ४।४।२५
अनन्तरम्: ४।४।२७
 
सूत्रम्
व्यञ्जनैरुपसिक्ते॥ ४।४।२६
काशिका-वृत्तिः
व्यञ्जनैरुपसिक्ते ४।४।२६

तेन इत्येव। व्यञ्जनवाचिभ्यः प्रातिपदिकेभ्यः तृतीयासमर्थेभ्यः उपसिक्ते इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दध्ना उपसिक्तं दाधिकम्। सौपिकम्। खारिकम्। व्यञ्जनैः इति किम्? उदकेन उपसिक्त ओदनः।
न्यासः
व्यञ्जनैरुपसिक्ते। , ४।४।२६

"व्यञ्जनैःर" इति। बहुवचननिर्देशः स्वरूपविधिनिरासार्थः। तेनेत्यधिकारादेव तृतीयायां समर्थविभक्तौ वत्र्तमानायां तृतीयानुवादः सुखप्रतिपत्तये। "संसृष्टे" ४।४।२२ इति वत्र्तमान उपसिक्तस्यैतत् प्रयोजनम्-- ओदनादौ यथा स्यात्। इह मा भूत्-- सूपेन संसृष्टा स्थालीति। उदकेनोदसिक्त ओदन इति। उदकं व्यञ्जनं न भवति; व्यञ्जनशब्दस्य सूपादावेव रूढत्वात्। ननु यद्व्यञ्जनैरुपसिक्तं तत्तैः संस्कृतं भवति; तत्र संस्कृतमेव सिद्धम्? न सिध्यति; सतो ह्रुत्कर्षावानं संस्कारः, न चासौ सर्वत्रोपसिक्तः सम्भवति। तथा हि-- व्यपगते स्वादुरसै प्रतिभावापन्नैरुपसिक्तेष्वोदनादिष्वपकर्ष एव भवति, नोत्कर्षः। उपसिक्तमात्रेऽपि चेष्यते। तस्मात् प्राक् तस्य पृथगारम्भः॥
बाल-मनोरमा
व्यजञ्जनैरुपसिक्ते १५५५, ४।४।२६

व्यञ्डनैरुपसिक्ते। उपसिक्तमित्यर्थे तृतीयान्तेभ्यो व्यञ्जनवाचिभ्यष्ठगित्यर्थः। सेचनेन मृदूकरणमुपसेकः। संसृष्ट इत्येव सिद्धे नियमार्थं सूत्रम्--"व्यञ्जनवाचिभ्य उपसिक्त एवे"ति। तेनेह न, सूत्रेन संसृष्टा स्थाली।

तत्त्व-बोधिनी
व्यञ्जनैरुपसिक्ते १२०३, ४।४।२६

व्यञ्जनैरुप। व्यज्यते अनेन ओदनादिरस इति व्यञ्जनां, तद्वाचिभ्य उपसक्ति इत्यर्थे ठक्स्यात्।