पूर्वम्: ४।४।२९
अनन्तरम्: ४।४।३१
 
सूत्रम्
प्रयच्छति गर्ह्यम्॥ ४।४।३०
काशिका-वृत्तिः
प्रयच्छति गर्ह्यम् ४।४।३०

ततिति द्वितीयासमर्थात् प्रयच्छति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति, यत् तद् द्वितीयासमर्थं गर्ह्यं चेत् तद् भवति। द्विगुणार्थ द्विगुणं, तादर्थ्यात् ताच्छब्द्यम्। द्विगुणं प्रयच्छति द्वैगुणिकः। त्रिगुणिकः। वृद्धेर् वृधुशिभावो वक्तव्यः। वार्धुषिकः। प्रकृत्यनतरं वा वृद्धिपर्यायो वृधुषिशब्दः। गर्ह्यम् इति किम्? द्विगुणं प्रयच्छत्यधमर्णः।
न्यासः
प्यच्छति गह्र्रम्। , ४।४।३०

"द्विगुणम्" इति। तादथ्र्यात् ताच्छब्द्यं दर्शयति। आद्विगुणार्थे वस्तुनि द्विगुणशब्दं वत्र्तयित्वा तत्र प्रत्ययं कुर्वतः कोऽभिप्रायः? एवं मन्यते-- द्वैगुणिक इति उत्तमर्ण उच्यते, न चासौ द्विगुणं प्रयच्छति, किं तर्हि? स्कन्दयित्वा द्विगुणं गृह्णाति; अन्यथा हि विपर्यये सति प्रसस्यमेव स्यात्, न तु गह्र्रम्। यदैकस्मिन्नर्थे तादथ्र्याद्()द्विगुणशब्दो वत्र्तते तदैकमेव द्विगुणार्थं प्रयच्छतो द्विगुणमेव भवतीति गह्र्रमिति। गर्हा पुनरिह प्रतिषिद्धस्य शास्त्रेण दीयमानस्य प्रत्यवायहेतुत्वाद्वेतितव्या। "प्रकृत्यन्तरम्" इत्यापिनोपसंख्यानं प्रत्याचष्टे"। तत्रापि तादथ्र्याद्वृद्ध्यर्थं यद्दीयते तद्()वृधुधिशब्देनोच्यते। ननु च तत्प्रत्याख्याने वृद्धिशब्दात् प्रत्यये सति वार्धिक इत्यपि स्यात्? नैष दोषः; अव्यविकन्यायेन हि वृद्धिशब्देन वाक्यमेव भवति। वृधुषिशब्देन वाक्यं वृत्तिश्च॥
बाल-मनोरमा
प्रयच्छति गह्र्रम् १५५९, ४।४।३०

प्रयच्छति गह्र्रम्। तदिति द्वितीयान्तमनुवर्तते। गर्ह्रं प्रयच्छतीत्यर्थे द्वितीयान्ताट्ठगित्यर्थः। द्विगुणार्थं द्रव्यं द्विगुणमिति। द्वैगुणिक इति वक्ष्यमाणोदाहरणे द्विगुणशब्देन द्विगुणार्थं द्रव्यं विवक्षितमित्यर्थः। तत्प्रय्च्छति द्वैगुणिक इति। द्विगुणीभवितुं स्वद्रव्यमृणं प्रयच्छतीत्यर्थः। "अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धकः" इत्यादिधर्मशास्त्रविरुद्धत्वादिह गह्र्रमिति भावः।

वृद्धेरिति। वृद्धिशब्दादुक्तार्थे ठकि प्रकृतेत्र्रधुषि इत्यादेशो वाच्य इत्यर्थः। इकारान्त आदेशः। वार्धुषिक इति। वृद्ध्यर्थं द्रव्यं-वृद्धिः, तत्प्रयच्छतीत्यर्थे वृद्धिशब्दाट्ठक इकादेशे प्रकृतेर्वृधुष्यादेश इति भावः। "वृद्ध्याजीवस्तु वार्धुषि"रिति तु प्रमाद एव।

तत्त्व-बोधिनी
प्रयच्छति गह्र्रम् १२०६, ४।४।३०

प्रयच्छति। द्वितीयान्तात्प्रच्छतीत्यर्थे ठक्स्याद्यत्प्रयच्छति गर्ह्रं चेत्तत्। द्विगुणार्थे द्विगुणमिति। तादथ्र्यात्ताच्छब्द्यमिति भावः। बहुवृद्ध्युद्देश्यकदानकर्मतयाऽस्य द्रव्यस्य गह्र्रत्वम्।

वृद्धेर्वुधुषिभावो वक्तव्यः। वार्द्धुषिक इति। वृद्द्यर्थं वृद्धिः। तां प्रयच्छतीति विग्रहः। अथ कथं "वृद्द्याजीवश्च वार्धुषि"रित्यमरः, ठक्सन्नियोगेनैव वृधुषिभावस्वीकारात्। अत्राहुः--निरङ्कुशाः कवय इति। गह्र्रमिति किम्()। द्विगुणं त्रिगुणं वा वृदिं()ध प्रत्यच्छत्यधमर्ण इत्यर्थे "द्वैगुणिक"इत्यादि माभूत्।