पूर्वम्: ४।४।३२
अनन्तरम्: ४।४।३४
 
सूत्रम्
रक्षति॥ ४।४।३३
काशिका-वृत्तिः
रक्षति ४।४।३३

तदिति द्वितीयासमर्थाद् रक्षति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। समाजं रक्षति सामाजिकः। सांनिवेशिकः।
लघु-सिद्धान्त-कौमुदी
रक्षति ११२६, ४।४।३३

समाजं रक्षति सामाजिकः॥
न्यासः
रक्षति। , ४।४।३३

बाल-मनोरमा
रक्षति १५६२, ४।४।३३

रक्षति। अस्मिन्नर्थे द्वितीयान्ताट्ठगित्यर्थः।

तत्त्व-बोधिनी
रक्षति १२०९, ४।४।३३

सामाजिक इति। समजन्ति अस्मिन्निति समाजः=समूहः।