पूर्वम्: ४।४।३३
अनन्तरम्: ४।४।३५
 
सूत्रम्
शब्ददर्दुरं करोति॥ ४।४।३४
काशिका-वृत्तिः
शब्ददर्दुरं करोति ४।४।३४

तदिति द्वितीयासमर्थाभ्यां शब्ददर्दुरशब्दाभ्यां करोति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। शब्दं करोति शाब्दिको वैयाकरणः। दार्दुरिकः कुम्भकारः।
लघु-सिद्धान्त-कौमुदी
शब्ददर्दुरं करोति ११२७, ४।४।३४

शब्दं करोति शाब्दिकः। दर्दुरं करोति दार्दुरिकः॥
न्यासः
शब्ददर्दुरं करोति। , ४।४।३४

तदित्यनेनैव द्वितीयासमर्थविभक्तौ लब्धायां शब्ददर्दुरमिति द्वितीयानिर्देशो लौकिकवाक्यप्रदर्शनार्थः। शब्ददर्दुरं करोतीत्येद्व्यावहारिकं वाक्यम्। अस्य प्रतिग्रहो यत्र लोके व्यवहारस्तत्र प्रत्ययो भवति नान्यत्रेत्यर्थ सूचयते, तेन शब्दं करोति रवर इत्यत्र न भवति। लोके स शाब्दिक इत्युच्यते यः शब्दं वेत्ति; वैयाकरण एव शब्दं वेत्ति, तेन तत्रैव प्रत्ययो भवति, न खरे। च असौ वैयाकरणः प्रत्ययप्रकृत्यादिना सर्वं शब्दं जानाति॥
बाल-मनोरमा
शब्ददर्दुरं करोति १५६३, ४।४।३४

शब्ददर्दुरं करोति। शब्दं करोति, दर्दुरं करोतीति विग्रहे द्वितीयान्ताट्ठगित्यर्थः। इह शब्दविषये प्रकृतिप्रत्ययविभादपूर्वकज्ञाने करोतिर्वर्तते, व्याख्यानात्। तेनेह न--शब्दं करोति खरः। दार्दुरिक इति। "दर्दुरस्तोयदे भेके वाद्यभाण्डाऽद्रिभेदयोः। दर्दुरा चण्डिकायां स्यात्पामजाले तु दर्दुर"मिति वि()आः। इह यथायोग्यमन्वयः।

तत्त्व-बोधिनी
शब्ददर्दुरं करोति १२१०, ४।४।३४

शब्दं करोतीति। प्रकृतिप्रत्ययविभागेन व्युत्पादयतीत्यर्थः। अभिधानस्वाभाव्याद्व्युत्पादन एवायं प्रत्ययः। नेह---शब्दं करोति बर्बरः खरो वा। दार्दुरिक इति। कुलाल इत्यर्थः। वाद्यभाण्डवाचीह दर्दुरशब्दः।

स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणम्। मात्स्यिक इति। "मत्स्यस्य ङ्या "मिति परिगणनात् "सूर्यतिष्ये"ति यलोपाऽभावः। हारिणिक इति। नन्विदं पर्यायस्योदाहरणं न भवति, हरिणस्य मृगविशेषंत्वात्तथा चात्र पर्यायस्योदाहरणं किमिति न प्रदर्शितमिति चेत्। अत्राहुः----आरण्यकचतुष्पात्सु हरिणे च मृगशब्दो वर्तते। यदा हरिणवाची मृगशब्दः, तदा मृगपर्यायस्योदाहरणं भवत्येवेति।