पूर्वम्: ४।४।३६
अनन्तरम्: ४।४।३८
 
सूत्रम्
माथोत्तरपदपदव्यनुपदं धावति॥ ४।४।३७
काशिका-वृत्तिः
माथौत्तरपदपदव्यनुपदं धावति ४।४।३७

माथशब्दौत्तरपदात् प्रातिपैकात् पदवी अनुपद इत्येताभ्यां च धावति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दण्डमाथं धावति दाण्डमाथिकः। शौल्कमाथिकः। पादविकः। आनुपदिकः। मथशब्दः पथिपर्यायः।
न्यासः
माथोत्तरपदपदव्यनुपदं धावति। , ४।४।३७

दण्डभावो माथो दण्डमाथः = ऋजुः पन्था उच्यते, तं धावति "दाण्डमाथिकः"। शुल्कस्य माथः शुल्कमाथः, "शौल्कमथिकः"। पदस्य पश्चादनुपदम्, पश्चादर्थेऽव्यीभावः, अनुपदं धावति-- "आनुपदिकः"। प्रत्यासत्या धावतीत्यर्थः। द्वितीयायां समर्थविभक्तौ लब्धायां पुनर्द्वितीयानिर्देशः "इष्टाद्()द्वितीयान्ताद्यथा स्यात्, अनिष्टान्मा भूत्" इत्येवमर्थम्। तेन यः "अनुर्यत्समया" २।१।१४ "यस्य चायामः" २।१।१५ "कुगतिप्रदायः" २।२।१८ इत्यादिभिर्योगैरनुशब्दस्य समासः, ततो न भवति॥
बाल-मनोरमा
माथोत्तरपदपदव्यनुपदं धावति १५६६, ४।४।३७

माथोत्तर। मथोत्तरपद, पदवी, अनुपद--एभ्यो द्वितीयान्तेभ्यो धावतीत्यर्थे ठगित्यर्थः। माथपदं व्याचष्टे--माथः पन्था इति। मथ्यते गन्तृभिराहन्यते #इति व्युत्पत्तेरिति भावः। दण्डमाथ इति। शाकपार्थिवादिः। पन्थानं धावतीति धावतेर्गत्यर्थत्वात् सक्रमकत्वम्। पादविक इति। पदवीं धावतीति विग्रहः। आनुपदिक इति। अनुपदं धावतीति विग्रहः।

तत्त्व-बोधिनी
माथोत्तरपदव्यनुपदं धावति १२१२, ४।४।३७

माथ इति। मथ्यते गन्तृभिरिति माथः। "मते विलोडने"। कर्मणि घञ्। पदोत्तरपदं। पदशब्द उत्तरपदं यस्य तत्पदोत्तरपदम्। "पदान्त"मिति तु नोक्तम्, बहुच्पूर्वान्मा भूदिति।