पूर्वम्: ४।४।३८
अनन्तरम्: ४।४।४०
 
सूत्रम्
पदोत्तरपदं गृह्णाति॥ ४।४।३९
काशिका-वृत्तिः
पदौत्तरपदं गृह्णाति ४।४।३९

पदशब्दः उत्तरपदं यस्य तस्मात् पदोत्तरपदशब्दात् तदिति द्वितीयासमर्थाद् गृह्णाति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। पूर्वपदं गृह्णाति पौर्वपदिकः। औत्तरपदिकः। पदानतातिति न उक्तं, बहुच्पूर्वान् मा भूतिति।
न्यासः
पदोत्तरपदं गृह्णाति। , ४।४।३९

पदग्रहणेन स्वरूपमेव गृह्रते, न सुप्तिङन्तं पदम्। अत एवाह-- "पदशब्द उत्तरपदं यस्य" इति। एतच्च द्वितीयायां लौकिकरवाक्यप्रदर्शनार्थत्वाद्()द्वितीयानिर्देशाल्लभ्यते। पदोत्तरपदं गृह्णातीत्येतल्लौकिकं वाक्यम्। अस्य प्रदर्शनेनैतत् सूचितम्-- लौकिकस्य हि पदस्य ग्रहणम्, न पारिभाषिकस्येति। अथ पदान्तादित्येव कस्मान्नोक्तम्? इत्याह-- "पदान्तादिति नोक्तम्" इत्यादि। गतार्थम्। पदमेवोत्तरपदं यस्य तस्माद्यथा स्यात्। इह तु श्लोकपादपदं गृह्णातीति भवतीति केचित्॥
बाल-मनोरमा
पदोत्तरपदं गृह्णाति १५६८, ४।४।३९

पदोत्तरपदम्। पदशब्द उत्तरपदं यस्य तस्माद्द्वितीयान्ताद्गृह्णातीत्यर्थे ठक्स्यादित्यर्थः।