पूर्वम्: ४।४।३
अनन्तरम्: ४।४।५
 
सूत्रम्
कुलत्थकोपधादण्॥ ४।४।४
काशिका-वृत्तिः
कुलत्थकौपधादण् ४।४।४

कुलत्थशब्दात् ककारोपधात् शब्दाच् च प्रातिपदिकादण् प्रत्ययो ह्बवति संस्कृतम् इत्येतस्मिन् विषये। ठको ऽपवादः। कुलत्थैः संस्कृतम् कौलत्थम्। ककारोपधात् तैत्तिडीकम्। दार्दभकम्।
न्यासः
कुलत्थकोपधादण्। , ४।४।४

बाल-मनोरमा
कुलत्थकोपधादण् १५३१, ४।४।४

कुलत्थकोपधादण्। "संस्कृतमित्यर्थे तृतीयान्ता"दिति शेषः। तैन्तिणीकमिति। तिन्तिणीकेन संस्कृतमित्यर्थः।