पूर्वम्: ४।४।३९
अनन्तरम्: ४।४।४१
 
सूत्रम्
प्रतिकण्ठार्थललामं च॥ ४।४।४०
काशिका-वृत्तिः
प्रतिकण्ठार्थललामं च ४।४।४०

प्रतिकण्ठार्थललामशब्देभ्यः तदिति द्वितीयासमर्थेभ्यः गृह्णाति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः। आर्थिकः। लालामिकः।
न्यासः
प्रतिकण्ठार्थललामञ्च। , ४।४।४०

कण्ठं कण्ठं प्रति प्रतिकण्ठम्, यथार्थेऽव्ययीभावः, आभिमुख्ये वा " लक्षणेनाभिप्रती आभिमुख्ये" २।१।१३ इति। कण्ठस्याभिमुख्य इति। कण्ठस्याभिमुख्यं प्रतिकण्ठम्, प्रातिकण्ठिकः स उच्यते सर्व कण्ठं यो गृह्णाति, यो वा कण्ठमाभिमुख्येन गृह्णाति। द्वितीयासमर्थप्रकरणे पुनर्द्वितीयान्त प्रकृतिनिर्देश इष्टाद्यथा स्यात्, अनिष्टान्मा भूत्। तेन प्रतिगतः कण्ठमिति "कुगतिप्रादयः" २।२।१८ इति तत्पुरुषो यः प्रतिकण्ठशब्दस्ततो न भवति॥
बाल-मनोरमा
प्रतिकण्ठार्थललामं च १५६९, ४।४।४०

प्रतिकण्ठार्थ। एभ्य इति। प्रतिकण्ठ, अर्थ, ललाम--इत्येभ्य इत्यर्थः। आर्थिक इति। अर्थं गृह्णातीत्यर्थः। लालामिक इति। ललामं=चिह्नं, तद्गृह्णातीत्यर्थः। "लिङ्गं ललामं च ललाम चे"त्यमरः।

तत्त्व-बोधिनी
प्रितिकण्ठार्थललामं च १२१३, ४।४।४०

प्रतिकण्ठमिति। कण्ठं कण्ठं प्रतीति यथार्थेऽव्ययीभावः, "लक्षणेनाभिप्रती आभिमुख्ये"इत्यनेन वा। यस्तु प्रतिगतः कण्ठं प्रतिकण्ठ इति प्रादिसमासः, तस्येह न ग्रहणं, व्याख्यानादित्याहुः।