पूर्वम्: ४।४।४१
अनन्तरम्: ४।४।४३
 
सूत्रम्
प्रतिपथमेति ठंश्च॥ ४।४।४२
काशिका-वृत्तिः
प्रतिपथम् एति ठंश् च ४।४।४२

प्रतिपथशब्दाद् द्वितीयासमर्थादेति इत्यस्मिन्नर्थे ठन् प्रत्ययो भवति, चकाराट् ठक् च। प्रतिपथम् एति प्रतिपथिकः, प्रातिपथिकः।
न्यासः
प्रतिपथमेति ठ#ँश्च। , ४।४।४२

"प्रतिपधिकम्" इति। पूर्ववद्वीप्सायाम्, आभिमुख्ये वाऽव्ययीभावः। पन्थानं पन्थानं प्रति प्रतिपथम्। आभिमुख्ये-- पथ आभिमुख्यं प्रतिपथम्। यः सर्वान् पथ एति, आभिमुख्येन वा पन्थानमेति स प्रातिपदिक इति चाभिधीयते॥
बाल-मनोरमा
प्रतिपथमेति ठञ्च १५७१, ४।४।४२

प्रतिपथमेति ठंश्च। प्रतिपथमित्यव्ययीभावादेतीत्यर्थे ठन्ठक्च स्यादित्यर्थः। प्रतिपथमिति। "लक्षणेनाभिप्रती आभिमुख्ये" इत्यव्ययीभावः। "ऋक्पूः" इति समासान्तः।

तत्त्व-बोधिनी
प्रतिपथमेति ठञ्चे १२१५, ४।४।४२

प्रतिपथमिति। वीप्सयामाभिमुख्ये वाऽव्ययीभावः। "ऋक्पू"रिति समासान्तः।