सेनाशब्दाद् वा ण्यः प्रत्ययो भवति समवायान् समवैति इत्येतस्मिन्नर्थे। ठको ऽपवादः। पक्षे सो ऽपि भवति। सेनां समवैति सैन्यः, सैनिकः।
सेनाया वा। ण्यः स्यादिति। शेषपूरणमिदम्। द्वितीयान्तात्सेनाशब्दात्समवैतीत्यर्थे ण्यो वा स्यादित्यर्थः। सैन्याः सैनिका इति। सेनां मेलयन्तीत्यर्थः।