पूर्वम्: ४।४।४५
अनन्तरम्: ४।४।४७
 
सूत्रम्
संज्ञायां ललाटकुक्कुट्यौ पश्यति॥ ४।४।४६
काशिका-वृत्तिः
संज्ञायां ललाटकुक्कुट्यौ पश्यति ४।४।४६

ललाटकुक्कुटीशब्दाभ्यां तदिति द्वितीयासमर्थाभ्यां पश्यति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति संज्ञायां विषये। संज्ञाग्रहणम् अभिधेयनियमार्थं, न तु रूढ्यर्थम्। ललाटं पश्यति लालाटिकः सेवकः। कौक्कुटिको भिक्षुः। सर्वावयवेभ्यो ललाटं दूरे दृश्यते। तदनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रति अनुपश्लेषः कार्येषु अनुपस्थायित्वं लक्ष्यते। लालाटिकः सेवकः। स्वामिनः कार्येषु न उपतिष्ठते इत्यर्थः। कुक्कुटीशब्देन अपि कुक्कुटीपातो लक्ष्यते। देशस्य अल्पतया हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छति स उच्यते कौक्कुटिकः इति।
न्यासः
संज्ञायां ललाटकक्कुट्यौ पश्यति। , ४।४।४६

"अभिधेयनियमार्थः" इति। अभिधेये सेवकविशेषे च प्रत्ययान्तस्य नियमः। तत्रैव वृत्तिर्यथा स्यादित्येवमर्थम्। "न तु रूढ()र्थम्" इति। लालाटिककौक्कुटिकशब्दयो रूढ()आमेकत्वात्। "तदनेन" इत्यादि। यत एव सर्वावयवेब्यो ललाटं दूरे दृश्यते, तस्मादनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रत्यनुपश्लेषो लभ्यते। न त्वत्र ललाटार्थो दर्शनं चास्ति। यादृशश्चानुपश्लेषो विवक्षितः, तं "कार्येष्वनुपस्थायित्वम्" इत्यनेन दर्शयति। "कुक्कुटीशब्देनापि" इत्यादि। कक्कुट()आ ह्रल्पदेशविषयः पातो भवति। तदनेन कुक्कुटीपातदेशस्याल्पता लक्ष्यते। न त्वत्र कुक्कुट()र्थो देशश्च विद्यते॥
बाल-मनोरमा
संज्ञायाललाटकुक्कुट्यौ पश्यति १५७५, ४।४।४६

संज्ञायाम्। ललालकुक्कुटीशब्दाभ्यां फश्यतीत्यर्थे ठक् स्यात्संज्ञायामित्यर्थः। संज्ञा=रूढिः, न त्वाधुनिकः सङ्खेतः। लालाटिकः शेवक इति। दूरे स्थधित्वा प्रभोर्ललाटं पश्यति, नतु कार्ये प्रवर्तत इत्यर्थः। "लालाटिकः प्रभोर्भालदशीं कार्याऽक्षमश्च यः" इत्यमरः। कौक्कुटिक इति। कुक्कुटीपतनार्हदेशं पश्यतीत्यर्थः।

तत्त्व-बोधिनी
संज्ञायां ललाटकुक्कुट्यौ पश्यति १२१८, ४।४।४६

संज्ञायाम्। ललाटकुक्कुटीशब्दाभ्यां द्वितीया। ताभ्यां पश्यतीत्यर्थे ठक्स्यात्। सम्यग्ज्ञानं संज्ञा=प्रसिद्धिः, तस्याम्। प्रसिद्धिविषयभूतेऽर्थं इत्यर्थः। लालाटिक इति। दूरे स्थित्वा प्रभोर्ललाटं पश्यति न तु कार्येषूपतिष्ठत इत्यर्थः। "लालाटिकः प्रभोर्भालदर्शी कार्याऽक्षमश्च यः"। कौक्कुटिको भिक्षुरिति। संन्यासी हि पादविक्षेपपर्याप्तदेशपर्यन्तमेव चक्षुः संयम्य गच्छतीति भावः।