पूर्वम्: ४।४।४६
अनन्तरम्: ४।४।४८
 
सूत्रम्
तस्य धर्म्यम्॥ ४।४।४७
काशिका-वृत्तिः
तस्य धर्म्यम् ४।४।४७

तस्य इति षष्ठीसमर्थाद् धर्म्यम् इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। धर्म्यं न्याय्यम्। आचारयुक्तम् इत्यर्थः। शुल्कशालायाः धर्म्यं शौल्कशालिकम्। आकरिकम्। आपणिकम्। गौल्मिकम्।
न्यासः
तस्य धम्र्यम्। , ४।४।४७

बाल-मनोरमा
तस्य धम्र्यम् १५७६, ४।४।४७

तस्य धम्र्यम्। धर्मदनपेतं धम्र्यम्, आचरितुं योग्यमित्यर्थः। धम्र्यमित्यर्थे षष्ठ()न्ताट्ठगित्यर्थः।

तत्त्व-बोधिनी
तस्य धम्र्यम् १२१९, ४।४।४७

धम्र्यमिति। धर्मादनपेतं धम्र्यम्। "धर्मपथ्यर्थन्यायादनपेते"इति यत्।